भारतस्‍य एकत्‍वे का बाधा।।


    कदाचित् सम्‍पूर्ण विश्‍वस्‍य सिरमौरवत् भारतवर्षस्‍य अद्य का गति: अस्ति इति वयं सम्‍यकतया जानिम:।
अस्‍माकं भारत: सुवर्णखग इति आसीत खलु किन्‍तु अद्य न सा स्थिति: नैव सा सम्‍पन्‍नता इति विचारणीय: विषय:।
अस्‍य भारतस्‍य क्रोडे आगन्‍तुं देवा: अपि उत्‍सुका: भवन्ति। देवा अस्‍य देशस्‍य महिमागानम् कुर्वन्ति।
गायन्ति देवा: किल गीतकानि धन्‍यास्‍तु ते भारतभूमिभागे
स्‍वर्गापवर्गास्‍पदमार्गभूते भवन्‍तु भूय: पुरूष: सुरत्‍वात्।।
इति विष्‍णु पुराणे निगदितम्
चेत् अद्य किमर्थं अस्‍माकं दुर्गति:जायमाना अस्ति इति सोचनीय:।।

कानिचन् कारणानि सन्ति यत् अस्‍माकं प्रगति: दुर्गते: परिवर्तिता भवति।
प्रथम: तु अस्‍माकं परस्‍पर द्वेषभावना ।
अद्य पर्यन्‍तं अस्‍माकं मन: विश्‍वबन्‍धुत्‍वं इति भावनया न प्रचोदित:।
वयं अद्यापि मनसा विभिन्‍नधर्मावलम्विन: न तु मानवता इति एकस्‍य एव धर्मस्‍य पोषका:।
वयं अद्य पर्यन्‍तं हिन्‍दव:, मुस्लिमा: न तु केवलं भारतीया: इति
एतदर्थमेव अद्य अस्‍माकं ऐक्‍यसम्‍बन्‍ध: क्षीयते न तु वर्धते।

द्वितीयं इदं यत् अद्य अस्‍मासु केचन मूर्ख-पण्डिता: ये केवलं ग्रन्‍थानां समालोचनायां स्‍व आत्‍मतुष्टि: प्राप्‍यन्‍ते।
तान अहं मूर्ख-पण्डिता: इति किमर्थं उक्‍तवान।
यतोहि वास्‍तविकरूपेण ते विद्वान्‍स:, तेषां विभिन्‍न दिशायां गति: अस्ति  अत: ते पण्डिता:
किन्‍तु ते स्‍व विद्वता केवलं परेषां पादोकर्षणे एव प्रयोजयन्ति अत: ते मूर्खा:।

वयं सर्वे एकीभूतं भवितुं शक्‍नुम: किन्‍तु तदर्थं अस्‍माकं आग्रह:, अस्‍माकं मन: , अस्‍माकं विचारा: समाना: भवेयु:।
वेद: अपि उच्‍यते
समानी व आकूति: समानानि हृदयानि व:।

प्रत्‍येकस्‍य मनुष्‍यस्‍य स्‍वधर्मे आस्‍था स्‍वाभाविकमेव
पुनश्‍च स्‍वग्रन्‍थानां प्रति अपि तस्‍य सम्‍मानभावना भवति एव
अत: यदा कश्चित् अन्‍य: तस्‍या: भावनाया: उपरि कुठाराघात: करोति चेत् स: मनुष्‍य: मनसा खिन्‍न: भवति अत: स: अपि कटुप्रत्‍युत्‍तरं ददाति।
एवं विधा शब्‍दयुद्ध: आरभ्‍यते।

साम्‍प्रतं चिट्ठाजगति एष: एव शब्‍दयुद्ध: जायमान: अस्ति
केचन चिट्ठाधीश्‍वरा: स्‍व विद्वताया: , शक्‍ते: च प्रयोग: केवलं परेषां अपमानं कर्तुम् एव सिद्धा: सन्ति।

अत: मम अनुरोध: अस्ति यत् भवन्‍त: सर्वे मिलित्‍वा तेषां तिरस्‍कार: कुर्वन्‍तु तेन सम्‍भवत: तेषां मनोविकाराणां प्रशमनं भवेत्।।

जयतु भारतम्  , जयतु संस्‍कृतम्

टिप्पणियाँ