संस्‍कृतप्रशिक्षणकक्ष्‍या - चतुर्थ अध्‍याय:।।

 हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:

अद्य सहर्षं चतुर्थ: अभ्‍यास: प्रकाश्‍यते ।


प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यास: करणीय: ।

स: बालक: ।
स: क: ?
क: स: ?(पुलिंग)

सा बालिका ।
सा का/ का सा ?(स्‍त्रीलिंग)

तत् व्‍यजनम् ।
तत् किम्/किम् तत्  (नपुंसकलिंग)

एष: बालक:।
एष: क:/ क: एष: ? (पु0)

एषा बालिका ।
एषा का/ का एषा ? (स्‍त्री0)

एतत् व्‍यजनम् ।
एतत् किम्/ किम् एतत् ? (नपु0)

सम्‍प्रति अग्रे चलाम:

एषा लेखनी - यह लेखनी है
एषा बालकस्‍य लेखनी - यह बालक की लेखनी है ।

एष चसक: - यह गिलास है 
एष रामस्‍य चसक: - यह राम का ग्‍लास है ।

एतत् स्‍यन्‍दनम् - यह रथ है ।
एतत् राज्ञ: स्‍यन्‍दनम् - यह राजा का रथ है ।

एषा अंकनी - यह पेंसिल है
एषा बालिकाया: अंकनी - यह बालिका की पेंसिल है ।

एष: स्‍यूत: - यह बैग है 
एष: रमाया: स्‍यूत: - यह रमा का बैग है ।

एतत् फलम् - यह फल है 
एतत् सीताया: फलम् - यह सीता का फल है ।


अद्यतन अलं
गृहकार्यं तद् वत् एव

शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।


नमो नम:

भवदीय: - आनन्‍द: 

टिप्पणियाँ

एक टिप्पणी भेजें