संस्‍कृतप्रशिक्षणकक्ष्‍या - नवमो अभ्‍यास:




पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।


पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।

एष: आपणिक: ।
एतानि वस्‍तूनि ।
राम: आपणिकात् वस्‍तूनि स्‍वीकरोति ।

स: मर्कट:।
स: वृक्ष: ।
मर्कट: वृक्षात् अवतरति ।

एते शिष्‍या:
एष: आचार्य:
शिष्‍या: आचार्यात् ज्ञानं स्वीकरोति ।


अग्रे चलाम:

एष: राम: - यह राम है
एष: दशरथ: - यह दशरथ हैं ।
राम: दशरथस्‍य पुत्र: - राम दशरथ के पुत्र हैं ।

एषा लेखनी - यह लेखनी है ।
एष: बालक: - यह बालक है ।
एषा बालकस्‍य लेखनी - यह बालक की लेखनी है ।

एतत् कमलपुष्‍पं - यह कमल का फूल है ।
एतत् पत्रम् - यह पत्‍ता है ।
एतत् कमलपुष्‍पस्‍य पत्रम् - यह कमलपुष्‍प (कमल) का पत्‍ता है ।

दशरथस्‍य- दशरथ का/की/के । बालकस्‍य- बालक का/की/के । कमलपुष्‍पस्‍य- कमल
का/की/के

इत्‍येतावत् अलम्

गृहकार्यं



1- यह शिव का धनुष है।
2- यह पुष्‍प की वाटिका है ।
3- यह आम का वृक्ष है ।
4- यह कृष्‍ण का भाई है ।


 
शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:


टिप्पणियाँ

  1. 1- यह शिव का धनुष है। एषः शिवस्य धनुषः .
    2- यह पुष्‍प की वाटिका है । एषः पुष्पस्य वाटिका: ।
    3- यह आम का वृक्ष है । एषः आमस्य वृक्षः ।
    4- यह कृष्‍ण का भाई है । एषः कृष्णस्य भ्रातः ।

    जवाब देंहटाएं

एक टिप्पणी भेजें