बहुदिनानि गतानि मया एक: सोमविषयक: लेख: प्रस्तुतीकृत: आसीत् । तस्मिन् लेखे केचन् वैदेशिकानां मतानां प्रस्तुतीकरणं अथ च तेषां निराकरणम् आसीत् किन्तु तत्र पर्याप्तं प्रमाणानाम् अभाव: आसीत् । तेषां वैदेशिकविद्वांसानां मतं ज्ञातुं अत्र आघातं कुर्वन्तु । तै: सोमविषये भ्रमोत्पादकं किमपि मतं दत्तमासीत् यत् सोम एकं शैवालं (फंफूदविशिष्टम्) अस्ति । केचन् उक्तवन्त: यत् एतत् किमपि सुरावत् पदार्थम् आसीत् । किन्तु तेषां मतं सम्यक् न प्रतीयते । यतोहि सुरा तु दैत्यानां पेयं आसीत् देवानां कथं भवितुमर्हति । शैवालम् अपि अपवित्र मन्यते अस्माभि: चेत् तस्य प्रयोग: तु देवै: सम्यक् न प्रतीयते ।
सम्प्रति ऋग्वेदस्य अध्ययने मया केचन् मन्त्रा: दृष्टा: येन अहं प्रमाणयितुं शक्नोमि यत् सोमरसं न तु सुरा आसीत् नैव च शैवालम् । निम्नोक्तमन्त्रेषु सोमस्य वर्णनं प्रमाणयति एतत् –
मन्त्र: - सुतपात्रे सुता इमे शुचयो यन्ति वीतये । सोमासो दध्याशिर: ।। (ऋग्वेद-1/5/5)
मन्त्रार्थ: - एष: सुत: (निचोडा हुआ) शुद्धीकृत:, दधिमिश्रित: पवित्रं सोमरस:, सोमपानस्य इच्छुक: इन्द्रदेवाय गच्छेत् ।।
मन्त्र: - तीव्रा: सोमास आ गह्याशीर्वन्त: सुता इमे । वायो तान्प्रस्थितान्पिब ।। (ऋग्वेद-1/23/1)
मन्त्रार्थ: - भो वायुदेव: । अभिषुत: सोमरस: तिक्तं सति दुग्धस्य मिश्रणं कृत्वा सज्जीकृतम् अस्ति । आगच्छ अस्य सोमरसस्य पानं कुरू ।।
मन्त्र: - शतं वा य: शुचीनां सहस्रं वा समाशिराम् । एदु निम्नं न रीयते ।। (ऋग्वेद-1/30/2)
मन्त्रार्थ: - अध: गच्छन् जलसदृशं प्रवहमानं शताधिकघटसोमरस:, सहस्राधिकघटदुग्धेषु मिश्रितं भूत्वा इन्द्रं प्रति गच्छति ।।
अत्र उपरोक्तेषु मन्त्रेषु कुत्रचित् सोमेन सह दधिमिश्रणं दर्शयति , कदाचित् दुग्धस्य मिश्रणं वदति । सम्प्रति भवन्त: चिन्तयन्तु यत् क: मूढ: सुरायां दुग्धं दधि व मेलयति । पुनश्च मया अद्य पर्यन्तं कदापि न श्रुतं यत् कश्चित् शैवालेन सह दुग्धं मेलयति दधिं वा । अन्यं इदं यत् सोमरस: साक्षात् सुत: भवति, सुरा तु नैव । शैवालस्य शाकं तु श्रुतं किन्तु रसं कश्चित् पिबति इति न श्रुतं मया ।
एवं विधा सर्वे सन्देहा: गता: । सोमरस: सम्प्रति न प्राप्यते किन्तु कदाचित् आसीत् यस्य प्रयोग: चायपेयवत् सम्भवत: प्रचलितम् आसीत् । ऋग्वेदे एकत्र एतत् अपि लिखितमस्ति यत् पशव: मानवा: चापि सोमपानं कुर्वन्ति स्म । अनेन सोमरसस्य भ्रान्तिनिराकरणं स्वयमेव भवति ।।
क्रमश: ……….
भवदीय:- आनन्द:
1 टिप्पणियाँ
सोम नामक औषध का अथर्ववेद में वर्णन है. यह हिमालय क्षेत्र में उत्पन्न होने वाली एक लता जातीय औषध है जिसमें शुक्ल पक्ष में उत्तरोत्तर प्रतिदिन एक नया पत्र निकलता है इस तरह पूर्णिमा के दिन इसमें कुल १५ पत्ते होते हैं...पुनश्च, कृष्ण पक्ष में उत्तरोत्तर प्रतिदिन एक पत्र का पतन हो जाता है और अमावस्या के दिन केवल तना भर रह जाता है. यह दिव्य औषध चमकदार होती है. इसका स्वरस तिक्त और उष्ण वीर्य होता है, यह वामक है अतः इसका सेवन किसी जलाशय में खड़े हो कर किया जाता है. वर्त्तमान में यह एक unidentified plant है किन्तु प्रतिनिधि द्रव्य के रूप में ephedra बूटी का प्रयोग प्रचलन में है जोकि नेपाल में बहुतायत से पायी जाती है.
जवाब देंहटाएंशैवाल निश्चित ही सोम नहीं है पर यह भी एक औषध है जिसका आजकल भूरिशः प्रयोग किया जा रहा है.