विश्व-संस्कृत-पुस्तकमेला

संस्कृत-प्रसाराय गतेषु शतवर्षेषु आयोजितेषु भव्यतमः, दिव्यतमः च कश्चित् उपक्रमः बेंग्लुरु इत्यत्र आयोज्यमानः अस्ति। विश्व-संस्कृत-पुस्तक-मेला इति उपक्रमस्य अस्य आख्या। अयम् उपक्रमः जानेवारी-मासस्य ७,८,९,१० इत्येतेषु दिनेषु आयोजयिष्यते। सर्वतो दीप्तिमन्तं कृत्स्नं संस्कृतजगत् एकत्र एव द्रष्टुकामैः संस्कृतानुरागिभिः अवश्यमेव अत्र समुपस्थातव्यम्। तद्विषयके http://www.samskritbookfair.org इत्यस्मिन् जालपुटे सर्वः विस्तरः वर्तते एव, तथापि अत्र किञ्चित् लिख्यते-
- विश्वे प्रकाशितानि संस्कृतसम्बद्धानि प्रायः सर्वाणि पुस्तकानि अत्र उपलप्स्यन्ते
- अवसरेऽस्मिन् पञ्चशताधिकानि विनूतनानि संस्कृतपुस्तकानि अपि प्रकाशितानि भविष्यन्ति
- संस्कृते विज्ञानम्, संस्कृत-हस्तलिखित-सम्पदा, संस्कृतस्य सद्यःस्थितिः इत्यादि-विषयिण्यः प्रदर्शिन्यः
- संस्कृत-विपणी
- शलाकापरीक्षा
- पण्डित-परिषद्
- अनुवादकार्यशालाः, संस्कृते नूतनशब्दनिर्माणम्, संस्कृते प्रबन्धन-शास्त्रम्
- बेंग्लुरु-नगरे १००८ संस्कृत-सम्भाषण-शिबिराणाम् आयोजनम्
- संस्कृत-नाटकोत्सवः
- संस्कृत-क्रीडोत्सवः
- भारते विद्यमानानां १२ संस्कृत-विश्वविद्यालयानां कुलपतयः तत्र समुपस्थास्यन्ति
- भारतस्य भूतपूर्वौ न्यायमूर्ती लाहोटी-वर्यः व्यङ्कटाचलैय-वर्यः च अत्र समुपस्थास्यन्ति
- भारतस्य शिक्षा-मन्त्री कपिल्-सिब्बल्-वर्यः उद्घाटकरूपेण समुपस्थास्यति
.......... इतोऽपि बहवः विशेषाः सन्ति अस्य उपक्रमस्य। अत्र उपस्थाय एव अपूर्वस्य अस्य उपक्रमस्य महिमा विज्ञातुं शक्यः!
तर्हि कस्मात् विलम्ब्यते। त्वर्यताम्। उपरिलिखितं जालपुटं दृष्यताम्। रेल्-विमानादिषु आरक्षणं क्रियताम्। वयं तत्र भवतां स्वागतं व्याहर्तुंम् उत्सुकाः!

टिप्पणियाँ

  1. यह अति आवश्‍यक सूचना है
    खासकर उन बन्‍धुओं के लिये जो किसी प्राचीन या अर्वाचीन संस्‍कृत ग्रन्‍थ को वर्षों से खोज रहे हैं, और आज तक पाने में असमर्थ रहे हैं ।

    उनके लिये भी जो संस्‍कृत बोलना सीखना चाहते हैं ।

    उनके लिये भी जो संस्‍कृत में आस्‍था रखते हैं ।

    उनके लिये भी जो संस्‍कृत का गौरव देखना चाहते हैं ।

    और

    उनके लिये भी जो संस्‍कृत को अव्‍यवहारिक या मृत भाषा मानते हैं ।

    यहाँ आपको विश्‍व भर की संस्‍कृत की दुर्लभ पुस्‍तकें प्राप्‍त होंगीं । यदि आप अपनी कोई संस्‍कृत की पुस्‍तक छपाना चाहते हैं तो भी आप यहाँ अवश्‍य पधारें ।।

    जवाब देंहटाएं
  2. यह विश्‍व संस्‍कृतपुस्‍तक मेला बंगलूर नगर में जनवरी मास के 7,8,9 और 10 दिनांक 2011 तक चलेगा ।

    सभी संस्‍कृत प्रेमियों को संस्‍कृत भारती व विश्‍व की समस्‍त संस्‍कृत संस्‍थाओं द्वारा आमंत्रित किया जाता है ।।
    पुस्‍तक मेले की अधिक जानकारी के लिये http://www.samskritbookfair.org/ पर देखें ।।

    जवाब देंहटाएं
  3. श्रीमान आनंदजी,
    मैं संस्कृत पढ़ना लिखना नहीं जानता किंतु इस देव वाणी को सीखने और इसके प्रसार-प्रसार में योगदान देने के लिए सदैव तत्पर हूं। देवभाषा के लिए जो कोई सेवा मुझसे हो पायेगी उसे मेरे योग्य निःसंकोच कहे।

    जवाब देंहटाएं

एक टिप्पणी भेजें