केचन दिवसेभ्य: पूर्वं अहं एकं शिवालयपरिसरं (शिवबाबा, अकबरपुर, अम्बेडकरनगर) प्रति गतवानासम् । तत्र अहं एकं अद्भुतं दृश्यं दृष्टवान । तत्र प्राय: जलनलिकानां संख्या शताधिकी आसीत् । सम्प्रति भवन्त: चिन्तयन् स्यु: यत् अस्मिन् किमपि नूतनं तु नैव । प्रायश: तादृशेषु स्थानेषु बहव्य: नलिका: भवन्ति एव यात्रीणां सुवाधार्थम् । चेत् अत्र किं विशिष्टम् । विशिष्टम् एतत् यत् प्रायश: यत्र कुत्रचित् अपि एतावती नलिका: भवन्ति तासाम् सर्वाषाम् उद्गम: कश्चित् एक: एव वृहद् घट: भवति । पुनश्च स: दीर्घ-जलाकर: स्वाचालित् जलयन्त्रेण् एव पूरयित: भवति । किन्तु अत्र सर्वे नला: तु साक्षात् पृथिव्याम् एव स्थापिता: सन्ति । इत्युक्ते सर्वेषां नलानाम् उद्गम: साक्षात् पृथिवी एव अस्ति ।
मया एते सर्वे गणिता: , संख्या 85 प्राप्ता । एते 85 नला: ते सन्ति येषामुपरि अधो यन्त्रं (आधार:) अस्ति । बहव: तादृशा: अपि त्यक्ता: येषामुपरि आधार: नासीत्, केवलं नलिका: एव आसन् । यदि एते सर्वे अपि गण्यते चेत् एतेषां संख्या शताधिकी भवति । इति
स्वयमेव पश्यन्तु भवन्त: -----------
सम्प्रति भवन्त: एव विचारयन्तु यत् कदाचिदपि भवन्त: एकस्मिन् एव स्थाने एतावन्त: नला: दृष्टवन्त: । नैव -------
अस्ति एतत् विश्वकीर्तिमानम् न वा ?
0 टिप्पणियाँ