धनानन्दस्य दानानन्दः



कस्मिन्श्चित् नगरे धनानन्दः नाम्ना कश्चन धनिकः आसीत्   किन्तु अतिकृपणः। एकदा नगरे महाभयङ्करः रोगप्रसारः अभवत्   पीडिताः नगरात् बहिः गत्वा न्यवसन्  । औषधोपचाराः तु आवश्यकाः  । साहाय्यम् अपि आवश्यकम् आसीत्  । समीपे एव एकः साधुः निवसति स्म 
"यदि धनिकाः धनदानं कुर्वन्ति तर्हि औषधोपचाराः निश्चयेन भविष्यन्ति  ।" इति विचिन्त्य साधुः धनानन्दं प्रति गतवान्   प्रार्थनां कृतवान् ," निर्धनाः रोगप्रसारेण पीडिताः 
भवान् धनिकः  । भवतः साहाय्यम् आवश्यकम्  । कृपया धनदानं करोतु।"
किन्तु धनानन्दः दानं न कृतवान् 
"अस्तु। कृपया मह्यं १० सुवर्ण नाणकानि ददातु  । सायङ्काले प्रतिदास्यामि  ।"------साधुः अवदत्।
"कथम्?" आश्चर्येन धनानन्दः पृष्टवान् 
"भवतः प्राप्तं धनं दर्शयित्वा अहम् इतरान् धनिकान् दानं कर्तुं प्रेरयिष्यामि    तदनन्तरं भवतः नाणकानि प्रतिदास्यामि  । चिन्ता मास्तु  ।"----- साधुः अवदत् ।
साधौ विश्वासं कृत्वा धनानन्दः तस्मै नाणकानि दत्तवान् 
योजनानुसारं साधुः पर्याप्तं धनं प्राप्तवान् 
कृपणेन धनानन्देन अपि दानं कृतम् इति मत्वा नगरस्य अन्यैः धनिकैः अपि साहाय्यं कृतम्  । योजनानुसारं साधुः धनानन्दाय नाणकानि प्रतिदत्तवान्  । किन्तु अहो आश्चर्यम्! धनानन्दः न् स्वीकृतवान्   
साधुं नमस्कृत्य सः उक्तवान् - " मया साहाय्यं कृतम् इति मत्वा प्रातः आरभ्य बहवः जनाः मम गृहम् आगत्य अभिनन्दनं कृतवन्तः  । यतः कृपणः इति मम ख्यातिः  । १० सुवर्ण नाणकैः अहं दानानन्दं प्राप्तवान्  ।भवान् दानानन्दस्य परिचयं कारितवान्  । धनानन्दस्य अपेक्षया दानानन्दः श्रेष्ठः 
धन्यवादः 

टिप्पणियाँ

  1. कथा का हिन्‍दी संक्षेप

    एक गाँव में धनानन्‍द नामक एक सेठ रहता था । उसके पास बहुत धन था पर वह उतना ही कंजूस भी था ।
    एक बार गाँव में महामारी फैल गई ।
    गाँव के लोगों ने एक साधू से उपचार पूछा
    साधू ने कहा उपचार तो हो जाएगा पर धन की आवश्‍यकता पडेगी ।
    साधू धनानन्‍द के पास गया और पैसे दान करने के लिये कहा ।
    धनानन्‍द ने पैसे देने से मना कर दिया
    साधु ने उससे कहा - तुम मात्र दस रूपये दो और शाम तक तुम्‍हे लौटा दूँगा ।
    धनानन्‍द ने आश्‍चर्य व्‍यक्‍त करते हुए कहा कैसे -
    साधु ने कहा इन पैसों को मैं अन्‍य लोगों को दिखाकर दान देने के लिये प्रेरित करूँगा ।
    धनानन्‍द ने दस रूपये दे दिये ।

    साधू काम पूरा करके शाम को धनानन्‍द को पैसे लौटाने के लिये गये
    पर धनानन्‍द ने पैसे नहीं लिये
    उसने कहा - लोगों ने दिन भर मुझे मेरे घर आकर धन्‍यवाद दिया है ।
    महात्‍मन आप ने मुझे आज धनानन्‍द की अपेक्षा जनानन्‍द का महत्‍व बतला दिया ।।

    जवाब देंहटाएं
  2. निशा महोदयाया: मुहुर्मुहु: धन्‍यवादा: एतादृशी सुन्‍दरी, ज्ञानवर्धिनी च कथा प्रस्‍तोतुम् ।।

    जवाब देंहटाएं

एक टिप्पणी भेजें