जापाननगराय प्रार्थनां कुर्वन्‍तु ।।

 

सर्वे जानन्ति एव सम्‍प्रति जापानदेशे प्रकृते: य: विरोध: प्रचलति  ।  जापानदेशे एकं महाप्रलयंकरं भूकम्‍पनम् आगतम्   ।  परह्य: एकं महाप्रलयंकरं भूकम्‍पनम् आगतं येन्  जापान देशस्‍य मियाकू नगरं नष्‍टं जातम्, पुनश्‍च इतोपि बहूनि नगराणि नष्‍टानि जातानि  ।  20 सहस्राधिकजना: गृहात् च्‍युता: अभवन्  ।  इति कथ्‍यते यत् प्रशिद्धभविष्‍यवक्‍ता नैष्‍ट्रोदमसेन 550 वर्षपूर्वम् एव अस्‍य महाप्रलयस्‍य घोष: कृत:  ।  यत् इदानीं सत्‍यं जातम्  ।  सम्‍प्रति जना: इत्‍यपि अनुभवन्ति यत् मायाभविष्‍यपत्रे यत् लिखितमस्ति यत् 2012तमे वर्षे महाप्रलयेन सम्‍पूर्ण पृथ्‍वी नष्‍टा भविष्‍यति किं तत् सत्‍यं तु नास्ति  ।

यत् किमपि अस्ति किन्‍तु सम्‍प्रति अस्‍माभि: जापानदेशाय प्रार्थना करणीया यत् भगवत: कृपया तत्र जना: एतत् महाप्रलयं सोढुं शक्‍यु:  । 

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामया:

सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभागभवेत्

टिप्पणियाँ