नववर्षं मंगलमयं भवतु

 

nav varsh

 

प्रियमित्राणि भवतां सर्वेषां प्रति नूतनभारतीयवर्षस्य शुभकामना: होलिकोत्‍सवस्‍य च व्‍याहरामि । ह्य: होलिकोत्‍सवावसरे भवद्भि: आनन्‍दं स्‍वीकृतं स्‍यात् किन्‍तु कदाचित् बहूनां जनानां मस्तिष्‍के एष: विषय: नैव आसीत् यत् ह्य: एव अस्‍माकं भारतीय-नववर्षस्‍य अपि प्रथमदिवस: आसीत् । चैत्रकृष्‍ण प्रतिपदा इति भारतीय नववर्षस्‍य प्रथम: दिवस: ।

संस्‍कृतजगत् परिवार: भवन्‍त: सर्वान् हार्दिकी शुभकामना व्‍याहरति होलिकोत्‍सवस्‍य , नववर्षस्‍य च । भगवत: कृपा सर्वे प्राप्‍नुयु: । एतत् नूतनवर्षं भवतां सर्वेषां कृते आह्लादकरं , उन्‍नतिदायकं च भवेत् इति अस्‍माकं कामना प्रार्थना च ।

 

नववर्षं मंगलमयं भवतु

होलिकोत्‍सवस्‍य शुभकामना च

टिप्पणियाँ