निर्णायक क्रीडायां भारतस्‍य प्रवेश:


live stream cricket online, Afridi vs Yuvraj in at India vs Pakistan live, India vs Pakistan semi final live stream, India vs Pakistan live, live cricket match          

        प्रसन्‍ना: भवन्‍तु सर्वे भारतीयक्रिकेटप्रसंसका:  ।  साक्षात् एव भारतेन पाकिस्‍तानदेशस्‍योपरि जयं प्राप्‍य निर्णायकक्रीडायां प्रवेश: प्राप्‍त:  ।  सचिनेन 85 धावनांकम् अर्जितम्  ।  

अनेन भारतदेश: 260 धावनांकस्‍य पन्‍थाह्वानपूर्णं लक्ष्‍यं दत्‍तवान् पाकिस्‍तानदेशस्‍य कृते  ।।  अतिरोमांचकरी क्रीडायां भारतेन पाकिस्‍तानं 29 धावनांकेन पराजितम्  ।  अंतिमे अंतके पाकिस्तानाय 30 धावनांकम्  आवश्‍यकम् आसीत्  ।  मिसबाहुल हक: 6 हन्‍तुं प्रयासं कृतवान् किन्तु कर्तुं न शक्‍तवान्  ।  स: बहि: गतवान्  ।  एष: अवसर: आसीत् जनानां हृदयोद्गारस्‍य  ।  जना: कूर्दनं कृतवन्‍त: ,  हासं कृतवन्‍त: , शुभकामना: दत्‍तवन्‍त: प्राप्‍तवन्‍त: च  ।

           एवं विधा भारतीया: निर्णायकक्रीडायां साक्षात् प्रवेशं प्राप्‍तवन्‍त:  ।  अग्रिम क्रीडा श्रीलंकादेशेन सह निर्णायकरूपेण भविष्‍यति या विश्‍वचषकस्‍य विजेतां चेष्‍यति  । 
      
      शुभकामना: भवतां सर्वेषां कृते
      शुभकामना: भारतीयक्रीडकानां कृते
      शुभकामना:

टिप्पणियाँ