एकदा अहं एकेन मित्रेण सह एकस्या: महिलाया: गृहं प्रति गतवान् । सा महिला एकस्मिन् महाविद्यालये संस्कृतविषयस्य एव उपाचार्या आसीत् । तस्या: द्वौ पुत्रौ आस्ताम् । तौ द्वौ अपि तकनीकिक्षेत्रे अध्ययनं कुर्वन्तौ आस्ताम् । तस्या पति: अपि कुत्रचित् अध्यापनकार्यम् एव कुर्वन् आसीत् इत्युक्ते स: अपि शिक्षक: एव आसीत् संस्कृतविषयस्य । आवां तत्र गतवन्तौ संस्कृतशिविरचालनाय स्थानं द्रष्टुं पुनश्च तत्र पाठका: सन्ति न व इति द्रष्टुम् । तत्र गत्वा आवां तां पृष्टवन्तौ यत् किं सा शिविरचालने सहयोगं दास्यति । सा पृष्टवती यत् किं संस्कृतम् एतावत् सरलं यत् 10 दिवसेषु जना: वक्तुं शक्नुयु: । मम मित्रम् उक्तवान् आम् इति ।
सा पुन: पृष्टवती - संस्कृताध्ययने को लाभ: । जना: वृत्तिं प्राप्नुवन्ति एव न अनया भाषया । किमर्थं न ते तकनीकिज्ञानं स्वीकुर्यु: । एतत् श्रुत्वा अवयो: मन: खिन्न: जात: । एका संस्कृताध्यापिका एवं वदति । अहं सत्वरं उक्तवान् महोदया । भवत्या: द्वौ पुत्रौ तकनीकिक्षेत्रे एव । एक: प्रबन्धने परास्नातकं कृतवान् अन्य: आई आई टी क्षेत्रे स्नातकं कृतवान् , भवती वदतु किं तौ वित्तं प्राप्तवन्तौ । सा वक्तुं समर्था न अभवत् । अहं पुन: उक्तवान् - महोदया , कृपया एकस्य व्यक्ते: नाम वदतु य: संस्कृतं पठितवान् किन्तु वित्तिं न प्राप्तवान् । मम दृष्टिपथे तु अद्यपर्यन्तं न आगतवान् कश्चित् । निरुत्तरा सा उक्तवती - मम आयु: पंच-अधिक पंचाशत जातं किन्तु अद्य अहं प्रथमवारं कंचित् दृष्टवती य: संस्कृतेन संभाषणं करोति । एवं तु संभवम् एव नास्ति यत् जना: संस्कृते वार्तालापं कुर्यु: ।
अहं साक्षात् उत्तरं दत्तवान् - महोदया , अद्य पर्यन्तं भवती न दृष्टवती आसीत् किन्तु अद्य संस्कृते वार्तालापं न केवलं श्रुतवती अपितु साक्षात् दृष्टवती । एवम् एव स्व: भवती 10 जनान् द्रक्ष्यसि परस्व: 100 जनान् द्रक्ष्यसि शनै:-शनै: सर्वे संस्कृतम् एव अंगीकरिष्यन्ति , मम वचनम् एतत् ।
इति उक्त्वा आवां तत: प्रति-आगतवन्तौ । किन्तु अवयो: वार्ताया: तस्या: उपरि तावत् प्रभाव: जात: यत् सा संस्कृताय तस्मिन् क्षेत्रे बहु कार्यं कृतवती । तस्या: पुत्रौ अपि स्व-स्व कार्यं कुर्वन् अद्यापि संस्कृतकार्यं कुर्वन्ति । सा जनान् शिक्षयति यत् संस्कृतं सरलम् अस्ति, कठिनं न ।
1 टिप्पणियाँ
सत्यम्। संस्कृतं सरलम् अस्ति। कठिनं न। किन्तु अभ्यासः अत्यावश्यकः। नियमितरुपेण।
जवाब देंहटाएं