संस्‍कृतस्‍य नूतनप्रशिक्षणं प्रारभ्‍यते ।।

 

SP_A0655संस्‍कृतजगत् पृष्‍ठे कानिचन् परिवर्तनानि सम्‍प्रति चलन्ति  ।  एतानि परिवर्तनानि केवलं अस्‍य दर्शकानां सौविध्‍यार्थम् एव क्रियते  ।  अस्‍माकं पुरातनबान्‍धवा: तु कदाचित् किंचित् अपि भ्रमिता: न भवेयु: किन्‍तु ये नूतना: सन्ति ते सम्‍भवत: किंचित् भ्रमेयु: किन्‍तु तेषां कृते अपि सम्‍प्रति पृष्‍ठस्‍य सरलीकरणं चलति  ।  ते अग्रे सम्‍यकतया पृष्‍ठं अवगन्‍तुं शक्‍क्ष्‍यन्ति  ।

 

अग्रिम मास आरभ्‍य एकं नूतनं संस्‍कृतप्रशिक्षणं चलिष्‍यति  ।  एतत् प्रशिक्षणं सर्वेषां जनानां कृते अत्‍युपयोगि भविष्‍यति यतोहि अस्‍य भाषा अपि सरलतमा भविष्‍यति पुन: च विषया: अपि प्रारम्भिका: एव भविष्‍यन्ति  ।  सर्वै: संस्‍कृतलेखकै: अनुरोध: क्रियते यत् कृपया मिलित्‍वा अस्‍य प्रशिक्षणस्‍य साफल्‍यं कुर्यु:  ।  ये यत् किमपि पाठयितुं शक्नुवन्ति ते कृपया स: विषय: एव स्‍वीकृत्‍य न्‍यूनातिन्‍यूनं एक लेख: अवश्‍यं लिखेयु:  ।  अस्‍माकं मूलध्‍येय: संस्‍कृतस्‍योन्‍नति: भवेत् न तु स्‍वस्‍य  ।  अहं शीघ्रमेव सर्वै: संस्‍कृतलेखकै: विद्वद्भ‍ि: सह् च जालसंदेशमाध्‍यमेन संपर्कं कृत्‍वा अस्‍य प्रशिक्षणस्‍य रूपरेखा रचयिष्‍यामि  । भवन्‍त: अपि कृपया सहाय्यं भवन्‍तु  ।

 Smile

भवदीय: - आनन्‍द:

टिप्पणियाँ