यथा अहं श्व: सूचितवान् आसम यत् संस्कृतस्य नूतनी प्रशिक्षणकक्ष्या आरभ्यमाणा अस्ति । एतस्या: कक्ष्याया: विषये भवन्त: सूचनीया: सन्ति यत् एषा कक्ष्या जालजगति आयोजितासु सर्वासु संस्कृतप्रशिक्षणकक्ष्यासु सरलतमा अथ च उत्तमा भविष्यति । अस्यां कक्ष्यायां भवन्त: प्रारम्भिकस्तरीयप्राठ्यकमं पठिष्यन्ति अथ च शनै:-शनै: मध्यमस्तरीय: पुनश्च उच्चस्तरीय: अपि पाठ्क्रम: पठिष्यन्ति ।।
प्रत्येकस्य पाठ्यक्रमस्य अनन्तरम् अहं भवतां सर्वेषां निर्देशम् अपि प्राप्तुं इच्छामि यत् पाठ्यक्रमे भवन्त: किं परिवर्तनम् इच्छन्ति, कुत्र असौविध्यम् अस्ति, किं अवगमने न आगतम्, किं इतोपि योजनीयम्, किं अपसारणीयम्, कुत्र काठिन्यम् इत्यादि । भवतां निर्देश: पाठ्यक्रमस्य गुणवत्तावर्धने सहाय्यं भविष्यति ।
मम पूर्वनिवेदनम् अपि अस्ति अस्माकं संस्कृतविदुषां प्रति यत् भवन्त: अपि संस्कृतप्रशिक्षणे सहयतां कुर्यु: । ये संस्कृतप्रशिक्षणे सहाय्यं भवितुम् इच्छन्ति ते कृपया अस्य संकलकस्य लेखकत्वं स्वीकुर्वन्तु । लेखकत्वं स्वीकर्तुं अधिकं किमपि न करणीयमस्ति केवलं अस्य पृष्ठस्य अध: चित्रस्य उपरि नोदनं करणीयमस्ति । अस्मासु ये अपि संस्कृतं लेखितुं इच्छन्ति ते अपि लेखकत्वं स्वीकुर्यु: ।
सम्प्रति आशास्महे यत् भवन्त: संस्कृतप्रशिक्षणे स्व-सहभागं दास्यन्ति ।।
जयतु संस्कृतम्
भवदीय: - आनन्द:
1 टिप्पणियाँ
बहुत सुन्दर अच्छी लगी आपकी हर पोस्ट बहुत ही स्टिक है आपकी हर पोस्ट कभी अप्प मेरे ब्लॉग पैर भी पधारिये मुझे भी आप के अनुभव के बारे में जनने का मोका देवे
जवाब देंहटाएंदिनेश पारीक
http://vangaydinesh.blogspot.com/ ये मेरे ब्लॉग का लिंक है यहाँ से अप्प मेरे ब्लॉग पे जा सकते है