20-विंशति: क्रीडाया: आरम्‍भ: ।।



अद्य आरभ्‍य आई.पी.एल. विंशति: क्रीडाया: शुभारम्‍भ: जात:  । 
 
भवन्‍त: जानियु: यत् एषा क्रीडा विंशति अन्‍तकानां क्रिकेटक्रीडा भवति    प्रत्‍येक: समूह: विंशति: अन्‍तकान् क्रीडति    एतेषु विंशति अन्‍तकेषु एव स: यावान् अपि धावनांकानि अर्जयति अग्रिम समूह: अपि विंशति: एव अन्‍तकेषु विजयं प्राप्‍तुं तस्‍य लक्ष्‍यस्‍य अनुगमनं करोति 
 अद्यतनीया क्रीडा चेन्‍नई अथ च कलकत्‍ता समूहयोर्मध्‍ये अस्ति  ।  धोनी (भारतीयसमूहपति:) चेन्‍नई समूहस्‍य अपि पति: अस्ति  ।  कलकत्‍ता समूहस्‍य पति: गौतमगभीर: अस्ति  ।  द्वयोर्समूहयो: मध्‍ये इदानीं क्रीडा जायमाना अस्ति  ।  नाडकं धोनी विजितवान् प्रथमे दण्‍डप्रहार: च चितवान्  । 
 मुरलीविजय: प्रथमे अंतके एव बहि: अभवत्  ।  किन्‍तु तस्‍यानन्‍तरं रैना आगत्‍य समूहस्‍य गति: समीकृतवान्  ।  सम्‍प्रति 6 अंतकेषु चेन्‍नैसमूहस्‍य 45 धावनांकानि सन्ति  ।  यदि क्रिकेटक्रीडाया: द्रुत् आनन्‍दं स्‍वीकर्तुं इच्‍छन्ति चेत् गत्‍वा दूरदर्शनम् उद्घाट्य एषा क्रीडा अवश्‍यमेव पश्‍यतु  । 


शुभम् 


संस्‍कृतजगत् 

टिप्पणियाँ