चेन्‍नैसमूह: विजित:।।


       आई.पी.एल. प्रतियोगिताया: प्रथमा क्रीडा चेन्‍नैसमूह: विजित:  ।

  प्रथमे दण्‍डप्रहारं कुर्वन् चेन्‍नैसमूह: 153 धावनांकानि अर्जितवान्  ।  यस्‍य प्रतिक्रियायां कलकत्‍तासमूह: 151 धावनांकम् एव अर्जितुं शक्‍तवान्  ।  प्रारम्‍भ: तु कलकत्‍तासमूहस्‍य सम्‍यक् एव अभवत्  ।  प्रायश: 8 अंतकपर्यन्‍तं तु तेषां एक: अपि क्रीडक: बहि: न निर्गत:  । किन्‍तु तदनन्‍तरं ते स्‍थातुं न शक्‍तवन्‍त:  ।  मध्‍ये पुन: एकवारं तेषां स्थिति: सम्‍यक् अभवत् यदा कश्चित् मनीषतिवारी इति क्रीडक: षडकद्वयं हतवान्  ।  किन्‍तु तस्‍य निर्गमनं कलकत्‍तासमूहस्‍य पराजयकथां निश्चितं कृतवान्  ।  अनन्‍तरं अन्तिमे कन्‍दुके 4 धावनांकानि आवश्‍यकानि आसन् यस्‍य अर्जनं नैव अभवत् केवलं एकं एव अंकं प्राप्‍तम्  ।  एवं विधा चेन्‍नै समूह: 3 धावनांकेन विजित:  ।

टिप्पणियाँ