जयतु संस्कृत वाणी ..............


भारतीयेकता - साधकं संस्कृतम् ,  

भारतीयत्व-सम्पादकं  संस्कृतम् ,

ज्ञान-पुन्ज-प्रभा दर्शकं संस्कृतम् ,

सर्वदानंद-सन्दोह्दं संस्कृतम् || ||


विश्वबंधुत्व - विस्तारकं संस्कृतम्  ,

सर्वभूतैकता-कारकं संस्कृतम्  ,

सर्वत: शांतिसंस्थापकं संस्कृतम् ,

पंचशील-प्रतिष्ठापकं  संस्कृतम् , || 2 ||

त्याग -संतोष -सेवा -व्रतं संस्कृतम् ,

विश्वकल्याण -निष्ठायुक्तं  संस्कृतम् ,

ज्ञान-विज्ञान -सम्मेलनं  संस्कृतम् ,

भुक्ति -मुक्ति -सम्मेलनं संस्कृतम् , || 3 ||

नगरे - नगरे   ग्रामे -ग्रामे   विलसतु  संस्कृत  वाणी  |

सदने-सदने जन -जन वदने  जयतु  चिरं  कल्याणी  || 4 ||

जयतु संस्कृत वाणी ..............
 


टिप्पणियाँ

एक टिप्पणी भेजें