अल्‍पप्रयासेन् एव इण्‍टरनेट एक्‍सप्‍लोरर 9 स्‍थापयतु - INSTALL INTERNET EXPLORER 9 SIMPLY

         
        इण्‍टरनेट एक्‍सप्‍लोरर मृदुवसनस्‍य (SOFTWARE) अद्यतननस्‍य (UPDATION) सरलतमा विधि: प्राप्‍ता अस्ति    अस्‍मत्सु प्रायश: नवति प्रतिशत् जना: अस्‍य एव मृदुवसनस्‍य प्रयोगं कुर्वन्ति पृष्‍ठम् उद्घाटयितुम्    इदानीं पर्यन्‍तं अस्‍य मृदुवसनस्‍य 8 संस्‍करणम् आसीत् किन्‍तु कस्‍माच्चित् दिवसात् पूर्वम् एव अस्‍य 9 संस्करणम् उद्घाटितम्    प्रायश: सम्‍प्रति जना: अस्‍य प्रयोगं कुर्वन्ति अपि विभिन्‍नविधय:    अस्‍माकं ज्‍येष्‍ठतकनीकिज्ञ: सन्ति ये पूर्वमेव अस्‍य मृदुवसनस्‍य स्‍थापनाविधि: उक्‍तवन्‍त:     किन्‍तु तस्‍यां विध्‍यां काठिन्‍यम् आसीत् इति ते स्‍वयमेव उक्‍तवन्‍त:   

                 अहं एकं नूतनं ज्ञानं प्राप्‍तवान् अद्य अस्‍य सरलतया स्‍थापनां कर्तुं    अस्‍य स्‍थापनां कर्तुं भवन्‍त: एतां विधिम् अपि कर्तुं शक्‍नुवन्ति 


               पूर्व स्‍वसंगणकस्‍य प्रारम्‍भपिंजं (START BUTTON) नोदयन्‍तु    अध: अन्‍वेषणमंजूषायां (SEARCH BOX) अपडेट (UPDATE) इति टंकयन्‍तु (TYPE)   उद्घटितपृष्‍ठे उपरि दर्शितविकल्‍पं आगमिष्‍यति    तस्‍योपरि नोदनं कृत्‍वा प्रतीक्षां कुर्वन्‍तु    यदा वातायनं (WINDOW) अन्‍वेषणप्रक्रियां समापयति तदा तत्र बहूनि अद्यतनानि (MANY UPDATES) प्राप्‍यन्‍ते    तानि सर्वाणि अद्यतनानि तलपूरयन्‍तु (DOWNLOAD)   अनन्‍तरं स्‍वसंगणकं पुनर्पारम्‍भं (RESTART) करोतु    भवत: इण्‍टरनेट एक्सप्‍लोरर स्‍वयमेव अद्यतनीयं भविष्‍यति 

अस्‍तु तर्हि तलपूरयित्‍वा आनन्‍दं स्‍वीकुर्वन्‍तु 

संस्‍कृतजगत्

टिप्पणियाँ