संकल्‍पस्‍य जय: ।।


एतत् चित्रं भवन्‍त: कदाचित् अवगच्‍छेयु:  ।  एष: सन्ति अस्‍माकं देशस्‍य गौरव: अन्‍ना हजारे इति  ।  कथनस्‍य आवश्‍यकता नास्ति स: कथं भारतस्‍य गौरव: इति  । 
       गतसु पंचदिवसेसु सम्‍पूर्णभारतं तस्मिन् विषये ज्ञातवान्  ।  तस्‍य जीवनविषये कदाचित् अद्यापि बहव: न जानन्ति  किन्‍तु स: क: , तस्‍य कार्यं किम् इति सम्‍प्रति सर्वे जानन्ति  ।  

      अस्‍माकं भारते वर्धमान: भ्रष्‍टाचार: एका म‍हती समस्‍या  ।  एषा समस्‍या प्रतिदिनं इतोपि वर्धते  ।  अस्‍या: समस्‍याया: मूले प्रायश: अस्‍माकम् एव ज्‍येष्‍ठनेतार: ,  जनप्रतिनिधय: च सन्ति  ।  अत: ते भ्रष्‍टाचारनिर्मूलनाय किमपि न कुर्वन्ति  ।  गतवर्षे भ्रष्‍टाचारस्‍य बहुसंदर्भा: अग्रे आगता: यान् स्वीकृत्‍य स्‍वामि रामदेव: अग्रे आगतवान्  ।   स: भारतस्‍वाभिमानयात्रा इति विशिष्‍टम् आयोजनं कृतवान्  ।  तेन् भारतसर्वकारस्‍य निद्रा भग्ना अभवत्  ।  बहु किमपि समीकरणं योजितम्  ।  अनन्‍तरं अन्‍ना महोदय: अनश्‍नम् आरब्‍धवान्  ।  तेन सह अस्‍माकं सम्‍पूर्णदेशवासिन: बहुविधिप्रक्रम: कृतवन्‍त:   ।।  
        अद्य निर्णायकस्थितौ सर्वकार: पराजयं स्‍वीकृतवान्  ।  लोकपालविधेयकं स्‍वीकृतम्  ।  अस्‍य विधेयकस्‍य क्रियान्‍वयनं अगस्‍तमासपर्यन्‍तं भविष्‍यति  ।  एष: जय: न केवलं एकस्‍य अन्‍नाहजारेमहोदयस्‍य अपितु सम्‍पूर्णदेशस्‍य  ।  


जय हिन्‍द 


संस्‍कृतजगत् 

टिप्पणियाँ