विश्‍वास: विजित: ।।



          विश्‍वचषकप्रतियोगिताया: उपनिर्णायकस्‍पर्धयां भारतेन जयं प्राप्‍तम्  ।  सद्य: एव मम मस्तिष्‍के एका कल्‍पना आगता  । 

सा कल्‍पना मया काव्‍यरूपेण पत्रे लिखिता  ।  किमपि विचार्य सा रचना बहुनां जनानां पार्श्‍वे ईपत्रेण प्रेषिता , केषुचित् पृष्‍ठेषु प्रकाशिता अपि  ।  सा रचना हिन्‍दी-भाषाया: अवधी-विधायाम् आसीत्  ।  तस्यां रचनायां मया भारतस्‍य विजयं कल्पितम्  ।  आश्‍चर्यम् एतत् यत् मया तस्‍यां रचनायां भारतस्‍य दण्‍डप्रहार: (बल्‍लेबाजी) अन्‍ते निश्चितं कृत:  ।  सम्‍भवत: मम मन: जानाति स्‍म यत् भारतस्‍य दण्‍डप्रहार: अन्‍ते एव आगमिष्‍यति  ।  एतस्मिन् एव क्रमेण मया तत्र कल्पितं यत् भारतं रोमांचकप्रतिस्‍पर्धायां बहुकाठिन्‍यं प्राप्‍स्‍यति किन्‍तु अन्‍ते निश्‍चयेन जयं प्राप्‍स्‍यति  ।  तत् काव्‍यं भवन्‍त: अत्र पठितुं शक्‍नुवन्ति  ।  काव्‍यम् अस्ति आयो तेन्‍दूलकर को विजय सैन्‍य आयो है  ।। 
          कृपया पठन्‍तु एवं च कथम् अस्ति एतत् काव्‍यं इति टिप्‍पणीमंजूषायां लिखतु  ।।  
भवतां हार्द: धन्‍यवाद:  ।। 


जयतु संस्‍कृतम् 
जयतु भारतम् 

टिप्पणियाँ