प्रिय बान्धवा: शुभकामना: भवतां सर्वेषां कृते नूतनविक्रमाब्दस्य नवरात्रिपारम्भस्य च ।
अद्य भारतीयपरम्पराया: विक्रमसम्वत्सरस्य 2068 तम: वर्ष: आरभ्यते । अद्य एव नवरात्रे: अपि प्रथम: दिवस: । भवन्त: जानन्ति एव अस्माकं भारतीय परम्परायां महिलानाम् अपि तथैव आदर: यथा पुरुषाणाम् । एवमेव यथा वयं भगवत: विविधरूपाणि पूजयाम: तथैव देवीनामपि बहुविधानि रूपाणि पूज्यन्ते । एतस्मिन्नैव क्रमे भगवती दुर्गा सर्वासु देवीषु प्रमुखा कदाचित् वर्तते । अस्मिन् विषये अवगाहनपूर्वकं न भूत्वा वयं केवलं ताषाम् शुभाशीर्वादं स्वीकुर्म: । क: कनिष्ठ: क: ज्येष्ठ: इत्येतस्य निर्णयं तु पण्डिता: , विद्वदजना: कुर्यु: । अस्तु तर्हि नवदुर्गानामस्मरणं कुर्म: ।। नववर्षस्य आनन्दं च स्वीकुर्म: ।।
संस्कृतजगत: सदस्यानां , लेखकानां , कार्याधिकारिणां अथ च संस्कृतानुरागिणां कृते एष: नूतनसंवत्सर: , नूतनभारतीयवर्षं शुभं, कल्याणकरं च भवतु ।।
इत्येव प्रार्थना
जय हिन्द
जय माता दी
0 टिप्पणियाँ