स्‍वपृष्‍ठं चलभाषयन्‍त्रे पठतु पश्‍यतु वा - SEE YOUR FULL BLOG ON YOUR MOBILE


         अद्य यदा अहं स्‍वपृष्‍ठस्‍य फलकम् उद्घाटितवान् , अहं तत्र एकां नूतनी सुविधां दृष्‍टवान्  ।  अधुना स्‍वपृष्‍ठं सर्वे स्‍वचलभाषयन्‍त्रे अपि द्रष्‍टुं शक्‍क्ष्‍यन्ति विना अति प्रयासेन  ।  अस्‍य सुविधा ब्‍लागर द्वारा दत्‍तमस्ति  ।  अस्‍य कृते बहुकिमपि न करणीयमस्ति  ।  साक्षात् स्‍व डैशबोर्ड पृष्‍ठे गत्‍वा सेटिंग्‍स विकल्‍पं नोदयतु  ।  अनन्‍तरं ईमेल एंड मोबाइल इति विकल्‍पं नोदयतु  ।  तत्र भवन्‍त: किमपि निम्‍नवत् चित्रं द्रक्ष्‍यन्ति  । 




         अस्मिन् चित्रे विकल्‍पद्वयम् अस्ति  ।  अत्र बिन्‍दु: नो NO इति उपरि स्‍थापितमस्ति  ।  स: बिन्‍दु: निम्‍नवत् यस YES उपरि नोदयतु  । 

        यथा अत्र चित्रे दर्शितमस्ति  ।  एवं कृत्‍वा सेटिंग्‍स रक्षयतु  ।  अस्‍य पूर्वदृष्‍यम् अपि भवन्‍त: द्रष्‍टुं शक्नुवन्ति  ।  यथा संस्‍कृतजगत: पूर्वदृष्‍यम् अत्र दत्‍तमस्ति  । अ‍स्‍तु तर्हि आनन्‍दं स्‍वीकुर्वन्‍तु स्‍वजगमभाषयन्‍त्रे अपि पृष्‍ठपठनस्‍य  ।  

टिप्पणियाँ