संस्‍कृतं लिखतु धनार्जनं करोतु - write sanskrit earn money


         प्रिय बान्‍धवा: 
संस्‍कृतस्‍य प्रसाराय भवद्भि: दत्‍त: सहयोग: धन्‍यवादार्ह:  ।  भवतां सहयोगेन एव अद्य संस्‍कृतजगत् जालजगति विशिष्‍टं स्‍थानं प्राप्‍तवान् अस्ति  ।  संस्‍कृतजगत् संस्‍कृतभाषाया: प्रसाराय कृतसंकल्‍प: जनानां समूह: अस्ति  ।  इदानीं पर्यन्‍तं एतेषां जनानां प्रयास: सराहनीय: अस्ति  ।  एतेषां प्रयासेन निश्‍चयेन अद्य संस्‍कृतस्‍य जालजगति प्रभाव: वर्धित: अस्ति  ।  जना: संस्‍कृतं पठितुं उत्‍सुका: अभवन्  ।  केचन् लेखितुम् अपि प्रयासं कुर्वन्ति अथ च केचन् लेखनम् अपि कुर्वन्ति  ।  
       अस्‍मासु बहव: सन्ति ये संस्‍कृतकक्ष्‍याया: नियमपूर्वकम् अध्‍ययनं कुर्वन्ति  ।  बहव: तादृश: अपि सन्ति ये लेखितुम् इच्‍छन्ति किन्‍तु भयकारणात् न लिखन्ति यत् कदाचित् त्रुटि: भवेत्  । बहव: तादृश: अपि सन्ति ये लेखितुं सम्‍यकतया जानन्ति किन्‍तु केवलम् एतदर्थं न लिखन्ति यत् अनेन लाभ: क: इति ते न पश्‍यन्ति  ।  तेषां लाभार्थ: कदाचित् वित्तलाभ: भवेत् इति  । 
         एतत् सर्वं विचिन्‍त्‍य , पुनश्‍च संस्‍कृतजगत: अधिकारिवर्गै: परामर्शं कृत्‍वा निश्‍कर्षरूपेण निर्धारितं यत् अग्रिममासत: वयं संस्‍कृतलेखनस्‍य धनं दद्म:  ।  लेखकवर्गाय प्रतिलेखस्‍य कृते धनं प्रत्‍यर्पयाम:  ।  प्रतिमासे लेखका: यावन्‍त: लेखा: लेखिष्‍यन्ति तावानि धनानि अपि प्राप्‍ष्‍यन्ति  ।  प्रत्‍येकस्‍य लेखस्‍य मूल्‍यं निर्धारितं भविष्‍यति यस्‍य रूपरेखा अस्‍माकं अधिकारिण: सम्‍प्रति निर्धारयिष्‍यन्ति  ।  
           इदानीं पर्यन्‍तं भवन्‍त: संस्‍कृतम् आत्‍मलाभाय पठन्‍त: आसन् किन्‍तु अधुना भवन्‍त: संस्‍कृतलेखनस्‍य धनलाभ: अपि प्राप्‍ष्‍यन्ति  ।  अत: अद्य एव संस्‍कृतजगत: लेखकत्‍वम् अंगीकुर्वन्‍तु  । 


अग्रिम सूचना: शीघ्रम् एव दद्म:  ।  तावत् संस्‍कृतस्‍य लेखनाभ्‍यास: कुर्वन्‍तु  । 


संस्‍कृतजगत्



टिप्पणियाँ