सचिनतेन्डुलकरः

सचिनतेंडुलकरः क्रिकेटक्रीडायाः परमेश्वरः। तेन नैकाः विक्रमाः कृताः। यतः सः परिश्रमी। क्रीडायां तस्य निष्ठा। मनसि आत्मविश्वासः निश्चयः च।
भारत - आस्ट्रेलिया क्रीडास्पर्धा आसीत्। हैदराबादनगरे सचिनेन युवराजेन च आक्रमकी क्रीडा आरब्धा। तदा आस्ट्रेलियासङ्घे ब्रॅडहॅागः क्रीडन् आसीत्। तेन सचिनः पराजितः। सः प्रसन्नः अभवत्। द्वन्द्वस्पर्धां समाप्य सः सचिनं प्रति अगच्छत्।
येन कन्दुकेन सः सचिनं पराजितम् अकरोत् तस्मिन् कन्दुके एव सः सचिनस्य हस्ताक्षरम् ऐच्छत्।
हसित्वा सचिनेन हस्ताक्षरं कृतम्। तत्पूर्वं कन्दुकस्य उपरि एकं वाक्यं लिखितम्।
" एतद् पुनः कदापि न भविष्यति।"
तदनन्तरं सचिनः ब्रॅडहॅागः च बहुवारं द्वन्द्वस्पर्धाः क्रीडितवन्तौ। किन्तु कदापि ब्रॅडहॅागः सचिनं पराजितं कर्तुं न अशक्नोत्। सः निवृत्तः जातः। सचिनः तु अद्यापि निश्चयेन क्रीडन् अस्ति।

टिप्पणियाँ