Ticker

6/recent/ticker-posts

गत: मकबूल: - makbool is dead




अद्य प्रसन्‍नोस्मि अहम् अ‍त्‍यधिकम्  ।  भारतस्‍य कलंक: समाप्‍त:  ।  भारतीयानां हृदयकण्‍टक: निर्गत:  ।  अद्य एव मया  वार्तादूरदर्शने दृष्‍ट: तस्‍य मृत्‍युवार्ता  ।  सत्‍वर एव अहं प्रसन्‍नो अभवम्  ।  अहं चिन्‍तितवान् य‍त् एषा वार्ता अस्‍माकं संस्‍कृतजगत: भातृभि: सह मोदयामि  । 
एष: एव मकबूल: य: हिन्‍दुदेव्‍यानां देवानां च विकृतचित्राणि रचितवान् आसीत्  ।  न एतावत् एव अपितु स: भारतीदेव्‍य: (भारतमातु:) अपि तथैव चित्रं रचितवान्  ।  तदा आरभ्‍य अहम् एतत् स्‍वप्‍नं पश्‍यन् आसं यत् एष: मृत्‍यु: प्राप्‍येत्  ।  दु:खस्‍य विषय: एष: यत् अस्‍य मृत्‍यु तावत् कष्‍टकरं न अभवत् यावत् आवश्‍यकम् आसीत्  ।
तथापि सन्‍तुष्‍टोस्मि यत् विलम्‍बेन एव कथं न किन्‍तु गत: भारतीयानां हृदयकण्‍टक:  ।  निश्‍चयेन स: नरकं प्राप्‍येत्  ।
जयतु संस्‍कृतम्
जयतु भारतम्

एक टिप्पणी भेजें

4 टिप्पणियाँ

  1. अहं अत्र विषयाः दृष्ट्वा आनन्दपुलकितः । यतॊ ह्यत्र विषयप्रणेतारः अन्यभाषा-ब्लाग्-प्रणेतार इव सर्वान् विषयान् अधिकृत्य लिखन्ति । मया अन्यत्र संस्कृत-ब्लाग्स्-मध्यॆ केवलं संस्कृताध्यनविषयाः दृष्टाः । परमत्र सर्वॆ विषयाः दृष्यन्ते। संस्कृतेपि ब्लाग्-रचना वृद्धिमाप्नुयात् इति मे आशा ।

    जवाब देंहटाएं
  2. निश्‍चयेन स: नरकं प्राप्‍येत् ।
    जयतु भारतम्

    जवाब देंहटाएं
  3. वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
    ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥

    जवाब देंहटाएं