सर्वोत्‍तमा: भाषचालचालका: - Best Mobile Web Browsers

 

              अन्‍तरजालस्‍य वर्धमानं आपणं दृष्‍ट्वा प्राय: बहव: सेवा प्रदातार: जालचालकं प्रस्‍तुवन्ति ।  ‍जालचालकस्‍य वातायनसंस्‍करणम्, लिनक्‍ससंस्‍करणम् अथ च भाषसंस्‍करणम् इति त्रयं संस्‍करणं विद्यते ।  वातायने (संगणके) प्रयोक्‍तुं , लिनक्‍स उपरि (संगणके) प्रयोक्‍तु तथा च भाषयन्‍त्रे प्रयोक्‍तुं बहुविधा: जालचालका: उपस्थिता: सन्ति । 

            भाषयन्‍त्रे जायमानस्‍य जालप्रयोगस्‍य सम्‍प्रति वर्धनं जातमस्ति अतएव बहव: जालचालका: भाषयन्‍त्राणां कृतपि विद्यन्‍ते  ।  तेषु प्रमुखतमा: चालका: मया अत्र एकत्रीकृत्‍य प्रस्‍तूयते  ।  भवन्‍त:  स्‍व-स्‍व आवश्‍यकतानुसारम् एतान् तलपूरयन्‍तु ।

ओपेरा मिनी (Opera Mini Web Browser)

सम्‍प्रति ओपेरामिनी सर्वेषु भाषजालचालकेषु प्रमुखतम: अस्ति  ।  अस्‍य बहुवैशिष्‍ट्यमस्ति ।  प्रायश: अस्‍य चालकस्‍य विषये बहव: जानन्ति अपि ।  बहव: प्रयुज्‍यन्‍ते अपि ।  किन्‍तु इदानीमपि बहव: सन्ति ये अस्‍य उपयोगं न कुर्वन्‍तु उत अस्मिन् विषये न जानन्ति  ।  तेषां कृते अत्र अस्‍य तलपूर्तिश्रृंखला दीयते ।  श्रृंखलाया: उपरि नोदयित्‍वा तलपूरयतु ।  भाष यन्‍त्रे स्‍थापयतु अथ च जालचालनस्‍य आनन्‍दं स्‍वीकरोतु ।

ओपेरामिनी जालचालक: (Opera Mini Mobile Web Browser)

तलपूरयतु (Download)

 

भाषचालकेषु अन्‍य: जालचालक:अस्ति बोल्‍ट इति जालचालक: ।  अस्‍य अपि महत् वैशिष्‍ट्यम् एव ।  अस्‍य गति: सम्‍यक् अस्ति किन्‍तु केचन् अवगुणा: अपि सन्ति ।  तथापि चालकेषु अस्‍यापि प्रमुखं स्‍थानम् अस्ति वैशिष्‍ट्यमपि  ।  अध: दत्‍तश्रृंखलाया: उपरि नोदनं कृत्‍वा तलपूरयतु, भाषयन्‍त्रे स्‍थापयतु, अनुभवं स्‍वीकरोतु च ।

बोल्‍ट भाष जालचालक: (Bolt Mobile Web Browser)

तलपूरयतु (Download)

 

चालकेषु अन्‍यतम: अस्ति यू.सी. चालक: ।  अहम् अस्‍य एवं प्रयोगं करोमि ।  अस्‍य वैशिष्‍ट्यम् अस्ति द्रुततलपूर्ति: ।  भवान् एतेन चालकेन साक्षात् संगणके जालचालनस्‍य आनन्‍दं प्राप्‍नोति ।

अध: नोदयित्‍वा तलपूरयतु भाषयन्‍त्रे स्‍थापयतु, आनन्‍दं स्‍वीकरोतु ।

यू.सी.भाष जालचालक: (U.C. Mobile Web Browser)

तलपूरयतु (Download)

टिप्पणियाँ