प्रथम: हिन्‍दीभाषाया: भाष जालचालक:–First Hindi Mobile Web Browser .

 

         अद्य भवतां पुरत: प्रस्‍तोमि अद्य पर्यन्‍त जालजगति उपलब्‍धजालचालकेषु प्रथम: हिन्‍दीभाषाया: चालचालक: (Mobile Hindi Web Browser) ।  इदानीं पर्यन्‍तं भाषयन्‍त्रे यदि हिन्‍दीभाषा स्‍थापिता नास्ति चेद् कथमपि हिन्‍दीजालपृष्‍ठानि न उद्घटन्ति स्‍म ।  यदि कश्चित् ईसंन्‍देश: हिन्‍दीभाषायाम् आगत: अथ च भवान् संगणके उपवेष्‍टुं न शक्‍नोति पुनश्‍च भवत: भाषयन्‍त्रे हिन्‍दीभाषा नास्ति चेत् भवान् कथमपि तत् संदेशं न पठितुं शक्‍नोति स्‍म ।  किन्‍तु प्रथमवारं भाषयन्‍त्राय अपि एक: जालचालक: आगत: अस्ति यस्मिन् बिना हिन्‍दीभाषाया: भाषयन्‍त्रे अपि हिन्‍दीभाषाया: पृष्‍ठानि सम्‍यकतया पठितुं, द्रष्‍टुं, हिन्‍दीसंदेशं प्रेषयितुं च शक्‍नुवन्ति ।

        एष: जालचालक: अस्ति बोल्‍टजालचालकस्‍य इण्डिक संस्‍करणम् (Bolt Mobile Web Browser’s Hindi version) ।  अस्‍य स्‍थापनं स्‍वभाषयन्‍त्रे कृत्‍वा भवान् विनाहिन्‍दीभाषाया: भाषयन्‍त्रेषु अपि हिन्‍दीपृष्‍ठानि पठितुं शक्‍नोति, हिन्‍दी संदेशं प्रेषयितुं शक्‍नोति च ।

अध: दत्‍तश्रृंखलाया: (LinK) उपरि नोदनं (Click) कृत्‍वा भाषयन्‍त्राय एतत् मृदुवसनं (Software) तलपूरयतु (Download) ।  भाषयन्‍त्रे संस्‍थाप्‍य पुन: हिन्‍दीभाषाया: पृष्‍ठानाम् उद्घाटनस्‍य आनन्‍दं स्‍वीकरोतु ।  सम्‍प्रति सर्वेषां कार्याणां कृते वारम्‍वारं संगणके उपवेशनस्‍य आवश्‍यकता एव न ।

बोल्‍ट भाष जालचालकस्‍य हिन्‍दी संस्‍करणम् (Bolt Mobile Web Browser’s Hindi Version)

तलपूरयतु (Download)

टिप्पणियाँ