गूगल जालपृष्‍ठस्‍य नूतनी सेवा गूगल प्‍लस (सामाजिक पृष्‍ठ: )- google's new service (google plus-social networking site)



 
फेसबुक सामाजिक जालदृश्‍यस्‍य (FACEBOOK SOCIAL NETWORKING SITE) महती साफल्‍यं दृष्‍ट्वा एव सम्‍प्रति गूगल अन्‍वेषक जालदृश्‍येन (GOOGLE SEARCH ENGINE )  एकं नूतनं जालदृश्‍यं विकसितमस्ति   अस्‍या जालयोजनाया: नाम अस्ति गूगल प्‍लस (GOOGLE +)   गूगल प्‍लस द्वारा गूगल जालदृश्‍यं एतत्  द्रष्‍टुमिच्‍छति  यत् कारणं किं आर्कुट सामाजिक जालदृश्‍यस्‍य (ORKUT SOCIAL NETWORKING SITE) दुर्गते:    ये जना: पूर्वं आर्कुट सामाजिकपृष्‍ठं प्रयुज्‍यन्‍ते स्‍म ते अपि सम्‍प्रति फेसबुक एव प्रयुज्‍यन्ते   प्रायश: सर्वत्रापि फेसबुक पृष्‍ठस्‍य प्रचलनम् वर्धितमस्ति   
भारते तु पूर्वं आर्कुट पृष्‍ठस्‍य एव प्राधान्‍यम् आसीत् किन्‍तु सम्‍प्रति अत्रापि जना: फेसबुक पृष्‍ठं प्रति गम्‍यमाना:, गन्‍तुकामा:, गन्‍तार:, गच्‍छन्‍त: च सन्ति    प्रतिदिनं फेसबुकपृष्‍ठस्‍य जनसंख्‍या वर्धते अथ च आर्कुटप्रयोजकानां सक्रियता न्‍यूनं भ‍वति  
जना: किमर्थं फेसबुकपृष्‍ठं प्रति गच्‍छन्ति , आर्कुट पृष्‍ठे का न्‍यूनता इति ज्ञातुं गूगल द्वारा एष: कश्चित् नूतन: प्रयास:     सम्‍प्रति तु अस्‍या: सेवाया: उद्घाटनं केवलं चितानां जनानां कृते अस्ति ,  एतान् जनान् गूगल प्‍लस स्‍वयमेव आह्वयति    अग्रिम चरणे अस्‍य व्‍यापकरूपेण प्रयोग: भवितुं सम्‍भविष्‍यति 
ये जना: गूगलप्‍लस मध्‍ये गन्‍तुकामा: सन्ति , अधिकं प्रतीक्षां कर्तुं न इच्‍छन्ति ते अस्‍य मूलपृष्‍ठे गत्‍वा स्‍व ईसंकेतं (E MAIL ID) दातुं शक्‍नुवन्ति    गूगल सेवा तेषां ईसंकेतस्‍य उपरि ईपत्रं (E MAIL) प्रेषयिष्‍यति    तत् आमन्‍त्रणं प्राप्‍य भवन्‍त: अस्‍या: सेवाया: उपयोगं कर्तुं शक्‍क्ष्‍यन्ति ।
गूगल प्‍लस पृष्‍ठस्‍य मुख्‍यपृष्‍ठे गन्‍तुम् अध: नोदयन्‍तु ।
          GOOGLE PLUS HOME
गूगलप्‍लस पृष्‍ठे स्‍व ईसंकेतं दातुम् अत्र नोदयन्‍तु
   SUBMIT YOUR MAIL ID

टिप्पणियाँ