अमौसी वायुस्थानके किंगफिशर वायुयानम्
जून मासे 2011 तमें ख्रीस्ताब्दे 19 दिनांकत: अस्माकं यात्रा ग़हात् आरम्भमभवत् । अकबरपुर (अम्बेडकरनगरत: ) 19 दिनांके मम माता, पिता, भगिनी अहं च सर्वे लखनउनगराय प्रस्थानं अकुर्वाम । मम अनुज: मंगल: तत्रैवासीत् । वयं रात्रिविश्रामं लखनउनगरे एकस्य पितृव्यस्य गृहे अकुर्वाम । प्रात: काले शीघ्र उत्थाय अमौसी वायुस्थानके प्राप्तवन्त: सर्वे 10 जना: वयं ।
वायुयानम् उड्डितम् । अस्माकं प्रथमवायुयान यात्रा आसीत् अत: मनसि महोल्लास: आसीत् । लखनउत: सार्ध्दैकहोरायाम् एव वयं देहली वायुस्थानकं प्राप्तवन्त: । पालमवायुस्थानकम् इति । तत: टर्मिनल 1डी कृते गतवन्त: । अस्माकं यानं तत: एव आसीत् किन्तु विलम्बकारणात् तत् यानं गतम् । वयं द्वितीययानाय चिटिका: कारितवन्त: । अस्य इतोपि 9000 अधिकं मूल्यम् आगतम् । अस्माकं यानं कोच्चिकृते 21 दिनांके आसीत् अधुना ।
इन्दिरागान्धिवायुस्थानकम् टर्मिनल 1डी
इन्दिरागान्धिवायुस्थानकात् वयं देहलीनगरे एव मधुवन नामके आवासे तस्मिन् दिने विश्रामं कृतवन्त: । 21 दिनांके प्रात: सार्द्ध नववादने वयं वायुस्थानकं प्राप्तवन्त: । वायुस्थानके सर्वान् अनौपचारान् समाप्य प्रतीक्षालये उपविष्टवन्त: । तत: अस्माकं यानं कोच्चिनगराय 12.30 वादने प्रस्थितम् ।
वायुयानं उड्डयनपथे प्रवृत्तम्
वायुयानम् उड्डितम् । आकाशे वयं बहुविधानि दृष्यानि दृष्टवन्त: । अस्माकं पार्श्वे एव मेघा: आच्छादकान् इव आच्छादिता: आसन् ।
वायुयानं वायुमार्गे आसीत् तदा अहं कानिचन् चित्राणि कर्षितवान् ।
अस्मिन् चित्रे अस्माकं साक्षात् पार्श्वत: एव मेघा: सन्ति । एतत् दृष्यम् अतीव नयनरंजकम् आसीत् ।
कपासशिखराणि इव मेघखण्डानि इतस्तत: आच्छादितानि आसन् ।
कदाचित् कुत्रचित् हिमगिरि इव हिमाच्छादिपर्वतानि इव दृष्यन्ते स्म ।
आकाशमार्गे 1.5 होरा व्यतीत्य वयं मुम्बई स्थानके 50 कला: प्रतीक्षितवन्त: । तत: वायुयानं पुन: उड्डितम् अथ च पुन: 1.5 होरा वायुमार्गे व्यतीत्य वयं कोच्चिस्थानकं प्राप्तवन्त: ।
अतिसुन्दरी, रमणीया च नगरी इयम् । चतुर्दिकं पठारा: वृक्षै: आच्छादिता: । एवं प्रतीयते स्म यत् विश्वस्य सर्वा: वनस्पतय: अत्रैव आगता: सन्ति ।
कोच्चिवायुस्थानके अवतीर्य वयं बहि: आगतवन्त: ।
तत् भवनम् अपि अतीव रमणीयम् आसीत् ।
मातरौ विहाय वयं टैक्सीयानं अन्वेषितुं गतवन्त: ।
कोच्चिवायुस्थानकस्य पुरत: वयं सर्वे उपविश्य बसयानाय अपि प्रतीक्षां कृतवन्त: किन्तु यानं न आगतम् अत: पुन: टैक्सीयानमेव कृत्वा वयं कोच्चीनगरं प्रति गतवन्त: । तत्र एडम इति वासस्थाने त्रय: प्रकाष्ठ: स्वीकृत्य सर्वे विश्रामाय गतवन्त: । सायंकालं जातमासीत्, बुभुक्षा चापि आसीत् अत:भोजनालये भोजनं कृत्वा सर्वे शयनाय अगच्छन् । अग्रिमदिवसस्य वार्ता अग्रिमलेखे । तावत् विश्रान्ति: स्वीकुर्वन्तु ।
नमस्कार:
1 टिप्पणियाँ
Thanks
जवाब देंहटाएं