संस्‍कृतजगत: सार्द्धैकशतम्–Sanskritjagat Got 150 Followers

 

_2011-07-24_23-19-17

          बान्‍धवा: धन्‍यवादै: सह सूचयामि यत् भवतां प्रयासेन संस्‍कृतजगत: अनुसर्तानां संख्‍या सार्द्धशतं जातम् ।  संस्‍कृतजगत: कार्यकालं अद्य पर्यन्‍तं यदि प्रश्‍याम: चेत् केवलं एकवर्षं अथ च द्वे मासे अभवत: संस्‍कृतजगत: प्रथमलेखस्‍य ।  अथवा वक्‍तुं शक्‍नुम: यत् संस्‍कृतजगत: कार्यारम्‍भस्‍य केवलं एकवर्षं समाप्‍तं जातमस्ति ।  अस्मिन् एकवर्षें एव संस्‍कृतजगत: अनुशर्तानां संख्‍या सार्द्धैकशतं जाता इति न केवलं हर्षस्‍य अपितु आश्‍चर्यस्‍य विषय: अपि ।bannerfans_1132705

         पूर्वं मया श्रुतम् आसीत् कदाचित् यत् जना: संस्‍कृतं नैव इ‍च्‍छन्ति ।  जनानां मनसि संस्‍कृतभाषां प्रति प्रीति: नास्ति ।  जना: आंग्‍लम् अधिकम् इच्‍छन्ति ।  किन्‍तु अत्र तु मम अनुसारेण गणना प्रतिगता अस्ति ।  मया बहूनि आंग्‍लभाषाया: पृष्‍ठानि अपि दृष्‍टानि ।  एतानि पृष्‍ठानि जालजगति बहुवर्षेभ्‍य: सन्ति किन्‍तु तथापि प्रायश: तेषां अनुशर्तानां संख्‍या अधिका नास्ति ।  किन्‍तु अत्र संस्‍कृतजगत: संख्‍या वर्षाभ्‍यन्‍तरे एव सार्द्धैकशतं जातम् इति निश्‍चयेन जनानां संस्‍कृते रुचि: वर्धिता अस्ति इति संकेतयति ।

        संस्‍कृतानुरागिण: सम्‍प्रति मोदयन्‍तु भो: ।  संस्‍कृतस्‍य भविष्‍यं निष्‍चयेन उज्‍ज्‍वलम् अस्ति ।

जयतु संस्‍कृतम्                                            जयतु भारतम्

 

संस्‍कृतजगत्

टिप्पणियाँ

  1. त्रुटि परिमार्जनार्थ पुन: प्रार्थना सह, योत्तम कार्यार्थ, अहं भवान अभिनंदन करोति| क्वचिदपि अन्य ब्लॉग भ्रमणार्थ प्रार्थनापि करिष्यते|

    ऊपर के वाक्यों में जो ग़लतियाँ हैं, उन का सुधार सुझाते वक़्त हिन्दी का प्रयोग ही करें - ताकि अन्य व्यक्ति भी यथासंभव समझते हुए आत्मसात कर सकें|

    नमन|

    जवाब देंहटाएं
  2. वाक्‍यशुद्धि - त्रुटि-परिमार्जनार्थं पुन: प्रार्थनया सह, उत्‍तमकार्यार्थम् अहं भवत: अभिनन्‍दनं करोमि ।
    अन्‍यान् जालपृष्‍ठान् अपि पश्‍यतु इति प्रार्थये (प्रार्थनां करिष्‍ये)

    1- सह-साथ के योग में सदैव तृतीया होती है अत- प्रार्थना का तृतीया एकवचन प्रार्थनया ।
    2- अर्थ के साथ सदैव अनुस्‍वार लगायें यथा परिमार्जनार्थम्, कार्यार्थम्
    3- भवान्- आप, भवत: - आप का...... मैं आप का अभिनन्‍दन करता हूँ वाक्‍य के लिये अहं भवत: अभिनन्‍दनं करोमि ।
    4- करोति - करता है , करोमि - करता हूँ ,
    क्‍वचित् का प्रयोग सही है किन्‍तु काठिन्‍यनिवारणार्थ अन्‍यान् जालपृष्‍ठान् (अन्‍य ब्‍लाग्‍स को) का प्रयोग सही रहेगा ।

    शेष सही है

    आपके संस्‍कृतप्रेम को देखकर बहुत प्रसन्‍नता हुई ।
    मेरा आपको एक सुझाव है, आप प्रारम्‍भ से एक एक पाठ पढें तथा उनसे सम्‍बन्धित गृहकार्य करें अर्थात् नूतन वाक्‍यनिर्माण करें । एक पाठ का दो चार बार अभ्‍यास करने से ये गलतियाँ धीरे धीरे एकदम सुधर जाएँगी ।
    इसमें मेरी जितनी सहायता अपेक्षित है मैं करने को तैयार हूँ ।

    सधन्‍यवाद

    जवाब देंहटाएं

एक टिप्पणी भेजें