समासस्‍यभेदा: उदाहरणानि च - Bahubrihi and Dwandw Samas



        गतलेखे समासस्‍य भेदानां विषये पठितवन्‍त: वयम् ।  उपभेदानां विषये अपि पठितवन्‍त: ।  सम्‍प्रति एतेषाम् उदाहरणानि पठिष्‍याम: ।




3- बहुब्रीहि समास: - प्राय: अन्‍यपदार्थप्रधान: बहुब्रीहि:। 
 बहुब्रीहि समास:द्विधा भवति । 


सामान्‍य: बहुब्रीहि:
सामान्‍य: बहुव्रीहि: षोढा भ‍वति ।

द्वितीयार्थबहुव्रीहि: - प्राप्‍तम् उदकं यं स: - प्राप्‍तोदक: (ग्राम:)
तृतीयार्थबहुव्रीहि: - पीतं क्षीरं येन स: - पीतक्षीर: (बाल:)
चतुर्थ्‍यर्थबहुव्रीहि: - दत्‍त: पशु: यस्‍मै स: - दत्‍तपशु:
पंचम्‍यर्थबहुव्रीहि: - उद्धुतं जलं यस्‍मात् स: - उद्धुतजलम् (कूप:)
षष्‍ठ्यर्थबहुव्रीहि: - पीतम् अम्‍बरं यस्‍य स: - पीताम्‍बरम् (हरि:)
सप्‍तम्‍यर्थबहुव्रीहि: - बहूनि फलानि यस्मिन् स: - बहुफलम् (वृक्ष:) 

विशेष: बहुब्रीहि:
विशेषबहुव्रीहि: नवधा भवति ।

व्‍यधिकरण: -चक्रं पाणै यस्‍य स: - चक्रपाणि:
संख्‍योत्‍तरपद: - विंशते: समीपे ये सन्ति ते - उपविंशा:
संख्‍योभयपद: - द्वौ वा त्रयो वा - द्वित्रा:
सहपूर्वपद: - शिष्‍येण सह वर्तते इति - सशिष्‍य:
व्‍यतिहारलक्षण: - केशेषु केशेषु गृहीत्‍वा इदं युद्धं प्रवृत्‍तम् - केशाकेशि
दिगन्‍तराललक्षण: - दक्षिणस्‍या: पूर्वस्‍या: दिशो यदन्‍तरालम् - दक्षिणपूर्वा
नंयबहुव्रीहि: - अविद्यमान: पुत्र: यस्‍य स: - अपुत्र:
प्रादिबहुव्रीहि: - निर्गता कृपा यस्‍य स: - निष्‍कृप:
उपमानपूर्वपद: - गजाननमिव आननं यस्‍य स: - गजानन:



4-द्वन्‍द्व समास: - प्राय: उभयपदार्थप्रधान: द्वन्‍द्व: ।
द्वन्‍द्व समास: द्विधा ।  एतयो: द्वयो: समासयो: पुन: भेदद्वय: क्रमश: । 

इतरेतर: द्वन्‍द्व: 
इतरेतर द्वन्‍द्व: अपि द्विधा भवति । 

द्विपदद्वन्‍द्व: - रामश्‍च कृष्‍णश्‍च - रामकृष्‍णौ
बहुपदद्वन्‍द्व: - हरिश्‍च हरश्‍च गुरुश्‍च - हरिहरगुरव:

समाहार: द्वन्‍द्व:  
समाहारद्वन्‍द्व: अपि द्विधा भवति । 

समाहार: - संज्ञा च परिभाषा च अनयो: समाहार:
नित्‍यसमाहार:  - पाणी च पादौ च एतेषां समाहार: - पाणिपादम् 



-: संस्‍कृतजगत्  :-

टिप्पणियाँ

एक टिप्पणी भेजें