अम्‍बेडकरनगरे भूकम्‍पनम् अनुभूतम् ।


       अद्य एव (18/09/2011) सायंकाले प्रायश: 6.20 वादने भूकम्पनस्‍य आन्‍दोलनम् अभवत् ।  अस्‍य भूकम्‍पनस्‍य तीव्रता तु नज्ञाता किन्‍तु भूकम्‍पनं पर्याप्‍तमेव आसीत् सम्‍भवत: ।  एषा सूचना अस्‍माकं संस्‍कृतजगत: सूचना-प्रसारणमन्‍त्री श्रीमान् आदर्शकुमार तिवारी महोदयेन सूचिता ।  सद्य एव बहव: जना: अपि अस्मिन् विषये पुष्टि: कृतवन्‍त: । 
भूकम्‍पनस्‍य तीव्रता नाधिका आसीत् ।  प्रायश: जना: नैव ज्ञातुं शक्‍तवन्‍त: किन्‍तु ये उपविष्‍टवन्‍त: आसन् तै: अस्‍य तीव्रता ज्ञाता ।

संस्‍कृतजगत्

टिप्पणियाँ