सर्वोत्‍तमं दूरदर्शनं संगणकदूरभाषयन्‍त्रयो: कृते - Best online TV for your mobile and PC






         प्रायश: सर्वेजना: एव इच्‍छन्ति यत् तेषां संगणके अथवा भाषयन्त्रे दूरदर्शनस्‍य अपि सुविधा भवेत् ।  येषां भाषयन्‍त्राणि महर्गाणि सन्ति , अतिमूल्‍यकानि सन्ति, अतिसौविध्‍यकानि सन्ति ते तु निश्‍चयेन इच्‍छन्ति एषा सुविधा ।
         एतत् सर्वम् एव विचार्य मया बहुधा अन्‍वेष्‍टा अंतरजाले एकस्‍य उचितस्‍य दूरदर्शनस्‍य कृते ।  यत्र सम्‍यकतया केषांचन् टीवीचैनल उद्घाटयितु शक्‍यं भवेत् ।  बहूनि मृदुवसनानि प्राप्‍तानि अपि यत्र निर्मूल्‍येन अपि दूरदर्शनस्‍य सुविधा प्राप्‍ता किन्‍तु तेषु एकमपि नासीत् तावत् सौविध्‍यकरं यावत् एतत् अस्ति ।
        मुंडू टीवी इति नामकम् एतत् मृदुवसनं निश्‍चयेन अति सौविध्‍यकरम् अस्ति ।  अस्‍य प्रयोग: संगणकयन्‍त्रे पुनश्‍च भाषयन्‍त्रे अपि कर्तुं शक्‍यमस्ति किन्‍तु एतस्‍य किंचित् मूल्‍यं देयं भवति ।  निर्मूल्‍येन अपि आनन्‍दं स्‍वीकर्तुं शक्‍यमस्ति किन्‍तु केवलं कतिचन् टीवीचैनल एव प्राप्‍स्‍यते निर्मूल्‍येन ।

        एतस्मिन् विषये अधिकं न वक्‍तव्‍यम् अपितु भवन्‍त: स्‍वयमेव प्रयोज्‍य पश्‍यन्‍तु ।

एतत् मृदुवसनं तलपूरितुम् अध: नोदयन्‍तु ।

मुंडू टीवी (संगणकस्‍य कृते)
Mundu TV for your PC

मुंडू टीवी (भाषयन्‍त्रस्‍य कृते )  
Mundu TV for your Mobiles 


टिप्पणियाँ

एक टिप्पणी भेजें