नोकिया अन्‍तर्जाल रेडियो भवतां भाषयन्‍्त्राणां कृते - Nokia Internet Radio For your mobile phones




         यदि भवान् संगीतप्रेमी किन्‍तु भवत: पार्श्‍वे समय: नास्ति गीतानि गृहे उपविश्‍य श्रोतुम् ।  भवत: जंगमभाषे तावत् क्षमता नास्ति विविधानि गीतानि तलपूरितुम् ।  भवत: इच्‍छा अस्ति प्रतिदिनं प्रतिपलं नूतनानि गीतानि श्रोतुम् ।  भवान् प्राक् गीतानि श्रोतुम् इ‍च्‍छति अथवा भवान् शास्त्रियसंगीतम् उत गज्‍जलिका: श्रोतुम् इ‍च्‍छति चेत् एतत् मृदुवसनं भवत: महत् सहायकं भवितुम् अर्हति ।

        एतदस्ति नोकिया इण्‍टरनेट रेडियो नाम मृदुवसनम् ।  अस्‍य वैशिष्‍ट्यमस्ति सक्रिय गीतानि श्रावयितुम् ।  सक्रिय इत्‍युक्‍ते साक्षात् अंतरजालमाध्‍यमेन ।  एतस्‍य प्रयोगं विविधेषु भाषेषु कर्तुं शक्‍यते किन्‍तु प्रायश: नोकिया भाष एव अस्‍य सम्‍यक् सम्‍पादनं करोति ।

          एतस्‍य कृते भवत: भाषयन्‍त्रे अंतरजाल सुविधा, भाषकोषे (Mobile Account) अतरजाल वैधता च भवेत् ।  अस्‍य उद्घाटनं कृत्‍वा विविधानि संगीतस्‍थानकानि चित्‍वा विविधगीतानाम् आनन्‍दं स्‍वीकर्तुं शक्‍यते ।

एतत् मृदुवसनं तलपूरितुम् अध: नोदयतु ।

नोकिया इण्‍टरनेट रेडियो 
Nokia Internet Radio 


टिप्पणियाँ