पितृविसर्जनस्‍यावसरे अस्‍माकं पूर्वजानां प्रति श्रद्धांजलि: ।





     पितृविसर्जनं इति किं नाम  पितृविसर्जनं किमर्थं क्रियते कस्‍य विसर्जनं च ।  अनेन लाभ: क: एते सर्वे प्रश्‍ना: अस्‍माकं मस्तिष्‍के आगच्‍छन्ति सम्‍भवत: ।  पितृविसर्जनं पितराणां 14 दिवसानां तर्पणादि क्रियाया: अनन्‍तरं प्रतिप्रेषणमस्ति तेषां लोके ।
        पितर: के - पितर: ते पूर्वजा: सन्ति अस्‍माकं, येषां कारणात् एव अस्‍माकं न केवलं जीवनम् अपितु अस्तित्‍वमपि अस्ति ।  ते पितरा: ये अस्मिन् संसारे न सन्ति सम्‍प्रति तेषामेव तर्पणादिकी क्रिया क्रियते अस्मिन् पक्षे ।  अनेन पितर: सन्‍तुष्‍टं भूय आशीर्वादान् ददति ।  यथा वयं प्रतिदिनं पूजार्चनं कुर्म: देवानां तथैव वयं पंचदश दिवसा: अस्‍माकं पितराणां प्रति यापयाम: ।  तेषां पूजार्चनं कुर्म: ।  तान् नमस्‍करोमि ।  तेषां आशीर्वादं च प्राप्‍नुम: ।
         अद्य एष: एव पूत अवसर: ।  14 दिवसानन्‍तरं अद्य पंचदशदिवसे पितराणां प्रतिप्रेषणमस्ति ।  तेषां पूजार्चनादिकानाम् अनन्‍तरं तेषां प्रतिगमनसमारोह: अस्ति ।  अद्य बहुत्र जना: ब्राह्मणाय भोजनं ददति ।  अन्‍यविधय: कार्याणि च विविधानि सम्‍पादयन्ति ।
       
        आगच्‍छन्‍तु अस्‍माकं पूर्वजानां, पितृणां प्रति आत्‍मानं श्रद्धांजलि: अर्पयाम: ।  ते अस्‍मान् सन्‍मार्गे प्रेरयन्‍तु ।


नम: पितरेभ्‍य:
नम: देवाय
नम: विष्‍णवे पितृणामपि पितराय ।

टिप्पणियाँ