मधुरसंगीतं श्रुण्‍वन्‍तु अंतरजाले कार्यं कुर्वन्‍त: एव - Listen Old and New Hindi Songs while working on web (Online Redio)




         बहव: जना: सन्ति ये प्रायश: आदिवसं संगणके उपविश्‍य अंतरजाले एव कार्यं कुर्वन्‍त: भवन्ति ।  एते जना: सम्‍पूर्णं दिनं जालपृष्‍ठे कार्यं कृत्‍वा-कृत्‍वा थकिता: भवन्ति ।  विश्रामं प्राप्‍तुं संगीतादिकं श्रोतुमिच्‍छन्ति किन्‍तु संगणके अधिकं भारं न भवेत् एतदर्थं संगीतचालका: न उद्घाटयन्ति ।  सक्रिय संगीतं श्रोतुं जालपृष्‍ठानाम् अन्‍वेषणं क: कुर्यात् अतएव थकिता: एव भूत्‍वा कार्यं कुर्वन्ति ।  
        एतेषां कृते एव संस्‍कृतजगता नूतनं यन्‍त्रमंजूषायां: निर्माणं कृतम् ।  अस्‍या: यन्‍त्रमन्‍जूषाया: उपयोग: प्रायश: सर्वेषां कृते अस्ति एव ।  ये संस्‍कृतपृष्‍ठानाम् अन्‍वेषणं कुर्वन्ति ते अत्र प्रमुखपृष्‍ठानि प्राप्‍तुं शक्‍यन्‍ते ।  ये ईसंदेशपृष्‍ठानि प्रयुज्‍ज्‍यन्‍ते तेषां कृते अपि श्रृंखला: दत्‍ता: सन्ति ।  
        सर्वतो उपयोगकर: विषय: अस्ति अस्‍य संगीतसुविधा ।  यन्‍त्रमंजूषायां एकं रेडियोयन्‍त्रमपि दत्‍तमस्ति ।  अस्‍य यन्‍त्रस्‍य उपयोगं कृत्‍वा सर्वे विविधगीतानि श्रोतुं शक्‍नुवन्ति ।
        
         संस्‍कृतजगत् पृष्‍ठम् उद्घाट्य अपि साक्षात् मधुरगीतानि श्रोतुं शक्‍नुवन्ति ।  सुन्‍दराणि पुरातनानि बालिबुड गीतानि श्रोतुं शक्‍यन्‍ते ।  अस्‍तु तर्हि पश्‍यन्‍तु, श्रृण्‍वन्‍तु, आनन्‍दं स्‍वकुर्वन्‍तु च ।


टिप्पणियाँ