पश्‍यन्‍तु क्रिकेटक्रीडा भवतां जंगमभाषस्‍योपरि - Live Cricket on your Mobile


        मित्राणि
सम्‍प्रति भारतइंग्‍लैण्‍डदेशयोर्मध्‍ये क्रिकेटक्रीडा जायमानास्ति ।  बहुधा जना: अस्‍या: क्रीडाया: आनन्‍दं स्‍व-स्‍व दूरदर्शनेषु प्राप्‍नुवन्ति ।  किन्‍तु ये कुत्रचित् बहि: सन्ति येन साक्षात् दूरदर्शनं द्रष्‍टुं न शक्‍नुवन्ति ते बहुधा स्‍वात्‍मीयजनान् भाष कृत्‍वा सूचनां प्राप्‍नुवन्ति । 
     अद्य काश्‍चन् विधय: अत्र प्रकाश्‍यते येन यदि भवत: भाषयन्‍त्रे अन्‍तर्जालसुविधा अस्ति चेत् निर्मूल्‍येन केषुचित् नानकेषु जीवन्तअंकान् प्राप्‍तुं शक्‍नोति । 
     प्रथमं सर्वाधिकं प्रसिद्धविधि: अस्ति , भाषयन्‍त्रे स्‍नैपटू (Snaptu) मृदुवसनं स्‍थापयतु ।  अनेन भवान् किंचित् मूल्‍येन एव जीवन्‍तं क्रिकेट द्रष्‍टुं शक्‍यते अंकरूपेण । 
     अन्‍या विधिरस्ति क्रिकेटकाम (Cricket Companion) भाषमृदुवसनं स्‍थापयतु ।  अनेन अपि स्‍नैपटूवत् एव क्रिकेटअंकान् द्रष्‍टुं शक्‍यमस्ति । 
      तृतीयाविधिरस्ति सर्वाधिकं सरलम् ।  अत्र भवान् किमपि स्‍थापयितुं बाध्‍य: नास्ति ।  केवलं स्‍वभाषयन्‍त्रस्‍य जालचालकम् उद्घाट्य याहूक्रिकेट (Yahoo Cricket) इति उद्घाटयतु ।  अत्र भवान् जायमानस्‍या: क्रीडाया: जीवन्‍तअंकान स्‍वयमेव प्राप्‍स्‍यति ।  बारं बारं स्‍वच्‍छम् (refresh) अपि नैव करणीयं भवति अ‍त्र । 


अस्‍तु तर्हि प्रयोगं कृत्‍वा मोदयन्‍तु । 


संस्‍कृतजगत् 

टिप्पणियाँ