अकबरपुरक्षेत्रे अपि दुर्गाप्रतिमा: सज्‍जीयमाना: ।


नवरात्रि उत्‍सव: सम्‍प्रति जायमान: अस्ति ।  स्‍थाने-स्‍थाने विविधपाण्‍डालेषु भगवत्‍य: दुर्गादेव्‍य: अन्‍येषां देवानां च प्रतिमा: स्‍थापिता: सन्ति ।  कुत्रचित् स्‍थाप्‍यन्‍ते अपि । 
      अकबरपुरक्षेत्रे (अम्‍बेडकरनगरे) अपि सम्‍प्रति दुर्गापाण्‍डालस्‍य सज्‍जादिककार्यं चलति ।  अत्र ग्रामीणक्षेत्रेषु तु प्रतिमा: स्‍थापिता: किन्‍तु नगरीयक्षेत्रेषु इदानीमपि सज्‍जा: एव चलन्ति ।  सम्‍भवत: केषुचित् दिवसेषु एव भगवत्‍य: प्रतिमा: स्‍थापिता: भवेयु: तथा तासां प्रतिमाणां चित्राणि प्रकाक्ष्‍यते ।

       संस्‍कृतजगत्

टिप्पणियाँ