भवतां आर्कुटचित्राणि गूगलप्‍लसउपरि रक्षतु - How to Share Your Orkut Photos on Google+ (Google Plus)







        मित्राणि
अद्य यदा अहं स्‍व आर्कुट कोशम् उद्घाटितवान् अहं एका नूतनी सुविधा प्राप्‍तवान् ।  अनया सुविधया सम्‍प्रति आर्कुटमध्‍ये येषां कोशा: सन्ति अथ च ये तत्र बहूनि चित्राणि उर्द्धपूरितवन्‍त: सन्ति तेषां कृते तानि चित्राणि गूगलप्‍लस मध्‍ये पुन: उर्द्धपूर्ति: करणीय: एव इति आवश्‍यकता नास्ति ।  भवान् साक्षात् स्‍वआर्कुटकोशात् गूगलप्‍लस उपरि तानि चित्राणि स्‍वीकर्तुं शक्‍नोति । 
        एतत् सर्वं कर्तुं सर्वप्रथमं भवता आर्कुटकोशम् उद्घाटनीयम् भविष्‍यति । यदा कोशम् उद्घटति साक्षात् भवत: चित्रस्‍य दक्षिणत: एव शेयर योर आर्कुट फोटोस आन गूगलप्‍लस इति लिखित्‍वा आगच्‍छति ।  भवान् तत्र नोदयति चेत् अग्रिमं पृष्‍ठम् उद्घटति ।  यथा द्वितीये चित्रे दत्‍तमस्ति ।

          सर्वाणि चित्राणि यानि भवत: आर्कुट पृष्‍ठे सन्ति तानि पृष्‍ठे दर्शितानि भवन्ति ।  एतेषु चित्रेषु यावन्‍त: भवान् प्रकाशयितुमिच्‍छति स्‍व गूगलप्‍लसउपरि तावत् चित्राणां चयनं करणीयं भवति ।  चित्‍वा अपलोड इति विकल्‍पं नोदनीयं भवति ।

      नोदनानन्‍तरं यथा तृतीये चित्रे दत्‍तमस्ति भवतां सर्वेषां चित्राणां पूर्ति: भविष्‍यति गूगलपृष्‍ठस्‍य उपरि ।  एतस्‍य अनन्‍तरं भवान् स्‍वचित्राणि भवत: गूगलप्‍लसपृष्‍ठे द्रष्‍टुं शक्‍नोति यथा कदाचित् आर्कुट पृष्‍ठे शक्‍यते स्‍म । 
        विशिष्‍टमेतदस्ति यत् भवतां सर्वाणि चित्राणि यानि आर्कुटपृष्‍ठे आसन् तानि तत्र तथैव तिष्‍ठन्ति अपि । 

        अस्‍तु तर्हि आनन्‍दं स्‍वीकरोतु उपर्युक्‍तं कृत्‍वा ।

संस्‍कृतजगत्

टिप्पणियाँ