वर्ण:
वैदिकव्याकरणे 13 स्वरा: 39 व्यंजनानि च सन्ति । आहत्य 52 ध्वनय: सन्ति वैदिकव्याकरणे । निम्नदत्तसारण्यां समग्रितरूपं द्रष्टुं शक्नुवन्ति ।
स्वर: -
(क) समानाक्षराणि - अ, आ, इ, ई, उ, उू , ऋ, ऋृ, लृ
(ख) सन्ध्यक्षराणि - ए, ओ, ऐ, औ
व्यंजनानि -
(क) स्पर्श: - 'क' त: 'म' पर्यन्तम् - 25
(ख) अन्तस्थ: - य, र, ल, व - 04
(ग) सोष्म: - श, ष, स, ह - 04
(घ) अनुस्वार:, विसर्ग: च - 02
(ड.) जिह्वामूलीय:, उपध्मानीय: च - 02
--------------
योग: 50
द्वौ 'ळ' उत 'ळह्' इति स्त: ।
'ळ' 'ळह्' च :- लौकिकसंस्कृतस्य व्यंजनानाम् अतिरिक्तं वैदिकसंस्कृते एतौ द्वौ स्वरौ: इतोपि भवत: । द्वाभ्यां स्वराभ्यां मध्ये आगते सति डकारस्य ळकार: इति भवति । 'द्वयोश्चास्य स्वरयोर्मध्यमेत्य, सम्पद्यते स डकारो ळकार:' । यदि सैव 'ड्' 'ह्' वर्णेन सह आगच्छति चेत् 'ळह्' इति भवति । 'ळहकारतामेति स एव चास्य डकार सन्नूष्मणा संप्रयुक्त:' ।
0 टिप्पणियाँ