देशस्य महान संगीतगायक: (गजलगायक:) श्री जगजीतसिंहवर्य: अद्य प्रात:काले एव तस्य मृत्यु: जात: । स: गतदिवसेषु ज्वरेण पीणित: आसीत् अत: मुंबईनगरस्य लीलावतीचिकित्सालयस्य आपातकालीनगृहे प्रविष्ट: आसीत् । अद्य प्रात: काले 8 वादने स: अस्मान् परित्यज्य स्वर्गं प्रति गत: ।
जगजीतसिंह: भारतीयगजलगीतानि नूतनं स्थानं प्रापयितवान् । स: न केवलं गजलगीतस्य अपितु विविधानां गीतानां ज्ञाता आसीत् । तेन भजनेषु अपि अन्यतमं योगदानं दत्तम् ।
तस्य प्रसिद्धानां गीतानां गणना नास्ति एव । स: न केवलं एक: साधुगायक: एव आसीत् अपितु एक: सहृदयमनुष्य: अपि आसीत् । तस्य गीतेषु तस्य हृदयस्य विशालता अपि दृष्यते ।
अद्य स: अस्माकं मध्ये नास्ति किन्तु तस्य गीतानि अस्मानं सदैव मोदयिष्यन्ति । अनेन एव स: अस्माकं हृदयेषु स्थाष्यति ।
तस्मै संस्कृतजगता श्रद्धांजलि: प्रदीयते । तस्य निधनस्य शोककारणात् संस्कृतजगत: उपरि अद्य अन्यान् लेखान् न प्रकाशयिष्न्ते ।
0 टिप्पणियाँ