यथा भवन्त: जानन्ति एव करवाचौथव्रतस्य किं महत्वमस्ति । भारतीयनारीणां कृते करवाचौथव्रतस्य कश्चित् अन्य: एव उल्लास: भवति । ता: नार्य: स्व-स्व पतीनां कृते आदिवसं व्रतं धरन्ति । जलमपि न पिबन्ति । सायंकाले यदा चन्द्रदर्शनं भवति अनन्तरं ता: स्व व्रतस्य समापनं कुर्वन्ति ।
अकबरपुरक्षेत्रे अस्य उत्सवस्य उल्लास: द्रष्टव्य: एव । अस्माकं क्षेत्रे अपि बहव्य: नार्य: एतस्य व्रतस्य आयोजनं कृतवत्य: । मम गृहे अपि मम माता एतां व्रतं धारितवती ।
करवाचौथ ब्रतस्य अद्य सोल्लासेन समापनं जातं स्थानीयगृहेषु । अस्मिन् क्षेत्रे प्राय: सार्द्धसप्तवादने एव चन्द्रदर्शनं जातमासीत् । तत: सर्वा: विवाहिता: एतत् व्रतं धारितवत्य: । पूजनादिकं कृत्वा व्रतस्य समापनं कृतवत्य: च ।
0 टिप्पणियाँ