इत: पूर्वं समासस्य मुख्यभेदानां प्रकाशनं कृतम् । सम्प्रति केचन ते समासा: येषां गणना समासे भवत्येव न, तेषां प्रस्तुतिकरणं करिष्यते । एतेषु समासेषु सन्ति प्रायश: चत्वार: समासा: । एते सन्ति अधोलिखिता: ।
एकशेष: समास: न अपितु कृदन्त, तद्धितान्त आदिवद् एव एका पृथक् वृत्ति: । अयम् एकशेष: द्वन्द्वसमासस्य एव अपवाद: । अस्य उदाहरणानि सन्ति कानिचन् -
माता च पिता च - पितरौ
भ्राता च स्वसा च - भ्रातरौ
पुत्रश्च दुहिता च - पुत्रौ
भवन्तश्च भवत्यश्च - भवन्त:
रामश्च रामश्च - रामौ
अयम् अपि पृथक् समास: नास्ति । समासे पूर्वोत्तरपदयो: विभक्त्यो: लोप: भवति इति किन्तु यत्र पूर्वपदस्य विभक्तिलोप: न भवति तत्र अलुक् समास: भवति ।
यथा -
वनेचर: - अयम् उपपद समास:
आत्मनेपदम् - अयं चतुर्थी तत्पुरुष:
परस्मैपदम् - अयं अपि चतुर्थी तत्पुरुष:
जनुषान्ध: - अयं तृतीया तत्पुरुष:
युधिष्ठिर: - अयं सप्तमी तत्पुरुष:
अयमपि नास्ति पृथक् समास: । अव्ययीभावे अव्ययं विभक्ति......... इत्यादिना सूत्रचतुष्टयेन विहित: अव्ययीभाव: (आहत्य चतुर्विंशति: अस्ति) नित्यसमास: । यत्र संज्ञादिषु समस्तपदेषु विग्रहस्य अपेक्षया विशेष अर्थस्य भानम् भवति तत्रापि नित्यसमास: भवति । अतएव नित्यसमासे अस्वपदविग्रह: । उपपदसमासादिषु यत्र अस्वपदविग्रह: प्रदर्श्यते तत्रापि नित्यसमासत्वम् एव ।
परस्परान्वितयो: एव सुबन्तयो: समास: । किन्तु ययो: समास: इष्ट: तयो: द्वयो: अन्वय: न भवति चेदपि क्वचित् समास: भवति ।
यथा - अपुनर्गेया श्लोका: - न पुन: गेया: इति विग्रह: । अत्र नंय शब्दस्य पुन: शब्दस्य च (अपुन:) समास: जात: । किन्तु नंय: अन्वय: गेयपदेनैव, न तु पुन: शब्देन । तथापि समास: कृत: । अत एव एष: असमर्थसमास: इत्युच्यते । एवमेव सूर्यं न पश्यन्ति इति - असूर्यम्पश्या: इत्यादावपि ।
वृत्ति: - विग्रहवाक्यावयवपदार्थेभ्य: पर: - अन्य: यो यं विशिष्टैकार्थ:, तत्प्रतिपादिका व़त्ति: । प्रथमविग़हीतानां पदानां प्रत्येकम् अर्थवत्वेन, समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका व़त्ति: इति फलितम् ।
वृत्तय: पंचधा भवन्ति - एता: सन्ति :- कृत्-तद्धित-समास-एकशेष-सनाद्यन्तधातुरूपा: पंच वृत्तय: ।
1- कदन्त:
2- तद्धितान्त:
3- समास:
4- एकशेष:
5- सनाद्यन्तधातुरूपा: च
वत्तिज्ञानं क्वचित् एव अपेक्षितं भवति इति अत: वृत्ति: अत्र संक्षेपेण एव निरूप्यते ।

संस्कृतजगत्
0 टिप्पणियाँ