दीपावली-कथा ।

प्रत्‍येकस्मिन् वर्षे दीपावल्‍य: पर्वम् आगच्‍छति एव ।  वयं सम्‍यकतया मोदयाम: अपि एतत् पर्वम् ।  किन्‍तु कदाचिद् एव वयं एतत् विज्ञातुमिच्‍छाम: यत् किमर्थं एष: उत्‍सव: दीपावली इति ।  वयं किमर्थं प्रतिवर्षं एतत् पर्वम् आयोजयाम: ।

आगम्‍यतां अस्‍या: कथा: श्रृण्‍म: । 

 

 

भवन्‍त: एतत् तु जानन्ति एव यत् भगवान् श्रीरामचन्‍द्र: रावणं हत्वा श्रीलंकां विजितवान् आसीत् त्रेतायुगे ।  स्‍वर्णमयी लंकां प्राप्‍य लक्ष्‍मण: उक्‍तवान् यत् किमर्थं त्‍यजति एतत् सुवर्णराज्‍यं चेत् भगवत: कथनमासीत् - 

अपि स्‍वर्णमयी लंका, न मे लक्ष्मण रोचते ।

जननी जन्‍मभूमिश्‍च स्‍वर्गादपि गरीयसी ।।

लंकाया: राज्‍यं विभीषणाय प्रदाय भगवान् श्रीरामचन्‍द्र: सीतालक्ष्‍मणै सह च अयोध्‍यां प्रति प्रस्थितवान् ।  तेन सह प्रायश: मानवानाम् अतिरिक्‍तमपि वानरा:, भल्‍लूका: इत्‍यादया: अपि आसन् ।  ते यदा अयोध्‍यां प्रति आगच्‍छन्‍त: आसन् तदैव भगवान् श्रीराम हनुमते आज्ञां दत्‍तवान् यत् कृपया गत्‍वा भरत: मम प्रिय अनुज: सूचनीय: सत्‍वरमेव नोचेत् स: प्राणं अर्पयेत् ।

श्रीहनुमान् जी अयोध्‍यां प्रति गत्‍वा त्‍वरितमेव भरताय सूचनां दत्‍तवान् भगवत: आगमनस्‍य ।  अस्मिन् एव आनन्‍दे श्रीभरतेन अयोध्‍याराज्‍ये सूचना: प्रसारित: यत् सर्वे स्‍व-स्‍व गृहे घृतदीपा: ज्‍वालयेयु: ।

भगवत: रामस्‍य आगमनसूचनां श्रुत्‍वा अयोध्‍यावासिन: सम्‍पूर्णं अयोध्‍यां विवाहिता रमणीवत् सज्‍जीवन्‍त: ।  ते सर्वे स्‍व-स्‍व गृहे दीपोज्‍ज्‍वालनं कृतवन्‍त: । 

तदा आरभ्‍य एव स: अवसर: दीपावलीइति रूपेण आयोज्‍यते ।  वयं सर्वे अपि जना: स्‍व-स्‍व गृहे दीपा: ज्‍वालयाम: ।  भगवत: आगमनस्‍य आनन्‍दे विस्‍फोटका: च ज्‍वालयाम: ।  मिष्‍ठान्नानि च अर्पयाम: जनेभ्‍य: ।

दशहरापर्वस्‍य साक्षात् अनन्‍तरमेव सर्वदा एष: उत्‍सव: आगच्‍छति ।  अस्मिन् अवसरे देव्‍य: लक्ष्‍म्‍य: अपि पूजार्चनं भवति तथा च गणेशस्‍य अपि अर्चनं कृयते जनै: ।

भवतां सर्वेषां कृते अपि दीपावल्‍य: हार्दिकी शुभकामना:

सर्वे दीपोज्‍ज्‍वालनं कृत्‍वा मोदयेयु: किन्‍तु विस्‍फोटका: अधिकं न ज्‍वालयेयु: येन अस्‍माकं पृथिव्‍या: प्रदूषणं इतोपि न वर्धेत् ।

 

संस्‍कृतजगत् 

टिप्पणियाँ

एक टिप्पणी भेजें