गुरु तेगबहादुर: (1622-1675 ई.)

 

     गुरूतेगबहादुरस्‍य जन्‍म 1 अप्रैल सन् 1621 तमे ख्रीस्‍ताब्‍दे अभवत् ।  विश्वस्‍य इतिहासपरम्‍परायां स: धर्मरक्षकेषु अन्‍यतम: आदरणीय: बलिदानि इति अस्ति ।

त्यागमलत: तेगबहादुर इति नामपरिवर्तनम् -

      गरुतेगबहादुरस्‍य जन्‍म पंजाबप्रान्‍तस्‍य अमृतसरनगरे अभवत् ।  तस्‍य पितु: नाम गुरु हरगोविन्‍द जी आसीत् ।  स: अपि सिखगुरुपरम्‍पराया: एक: गुरुरेवासीत् ।  श्री तेगबहादुर: तस्‍य  पंचम: पुत्र: आसीत् ।  अष्‍टमगुरो: श्रीहरिकृष्‍णस्‍य मृत्‍युप्राप्‍ते सति जनमतै: एष: नवम: गुरुरभवत् ।  अनेन आनन्‍दपुर साहिब इत्‍यस्‍य निर्माण प्रकार्य तत्रैव निवासं प्रारभत् ।  अस्‍य बाल्‍यकालस्‍य नाम त्‍यागमल इति आसीत् ।  14वर्षस्‍य आयु: एव आसीत् अस्‍य यदा मुगलानां विरुद्धं जायमाने युद्धे अनने वीरकार्यं सम्‍पादितं, तदारभ्‍य अस्‍य नाम तेगबहादुर इति कृतम् अस्‍य पित्रा ।

      औरंगजेबस्‍य शासने एक: पण्डित: आगत्‍य प्रतिदिनं गीतापाठ इति कुर्वन्‍नासीत् तस्‍य अर्थं चापि श्रावयन् आसीत्, किन्‍तु तेषु श्‍लोकेषु पण्डित: केचन श्‍लोका: परित्‍यजत् आसीत् ।  एकस्मिन् दिवसे पण्डित: रुग्‍ण: जात:, स्‍वस्‍यस्‍थाने स: स्‍वपुत्रं प्रेषितवान् किन्‍तु कान् श्‍लोकान् त्‍यक्तब्‍यमिति न सूचितवान् ।  श्‍लोकान् श्रुत्‍वा औरंगजेब: प्रत्‍येकानां धर्माणां महत्‍ता अस्ति इति ज्ञातवान्, स: सर्वान् जनान् इस्‍लाम् इति गृहीतुम् आहूतवान् ।  स: उक्‍तवान् - सर्वे इस्‍लामं स्‍वीकुर्य: नोचेत् मरणं प्राप्‍नुय: ।

      तस्‍य अत्‍याचारेण: पीडिता: जना: गुरो: तेगबहादुरं निवेदितवन्‍त: ।  तेगबहादुर: पितरं पृष्‍टवान् -‍ किं करणीयमिति ।  पिता जी उक्‍तवान् - बलिदानम् आवश्‍यकम् ।  गुरु तेगबहादुर: जनान् प्रेरितवान् - गत्‍वा औरंगजेबं वदतु यत् पूर्व गुरु तेगबहादुर: इस्‍लामं स्‍वीकुर्यात्, चेदेव वयं स्‍वीकुर्म: ।  औरंगजेब: स्‍वीकृतवान् ।

       गुरू तेगबहादुर: औरंगजेबस्‍य सभां गतवान् ।  औरंगजेब: बहुविधिना तम् इस्‍लाम स्‍वीकर्तुं प्रयत्‍नं कृतवान् किन्‍तु स: केनापि सहमति: न दत्‍तवान् ।  औरंगजेब: श्रुत्‍वा अतिक्रुद्ध: अभवत् ।  स: दिल्‍ली राज्‍यस्‍य चाँदनीचौक इति स्‍थाने तस्‍य शिरच्‍छेद: कर्तुम् आदेशं दत्‍तवान् ।  गुरुतेगबहादुर: हसन् एव बलिदानं दत्‍तवान् ।  तस्‍य बलिदानस्‍थले अद्य शीशगंजसाहिब गुरुद्वारा निर्मापितमस्ति ।

        गुरु तेगबहादुरस्‍य बहव्‍य: रचना: गुरुग्रन्‍थसाहिबग्रन्‍थस्‍य महला 9 मध्‍ये संग्रहीता: सन्ति ।  तस्‍य अद्वितीयबलिदानेन भारतस्‍य गौरवं वर्धितम् अस्ति ।

टिप्पणियाँ