लौकिक पूर्वरूपसन्धि: एव वैदिके अभिनिहितसन्धि इति नाम्ना ज्ञायते । अस्य नियमा: सन्ति ।
(1) अथाभिनिहित: सन्धिरेते: प्राकृतवैकृतै: ।
एकीभवति पादादिरकारस्तेSत्रसन्धिजा ।
यदि कस्यचित् पादस्य अन्ते 'ए' अथवा 'ओ' भवित तथा च अग्रिमस्य पादस्य आरम्भे 'अ' इति वर्ण: भवति चेत् उभयो: स्थाने एकरूपत्वं भवति । मध्ये केवलम् अवग्रहचिन्हं योज्यते ।
यथा- रथेभ्योSग्ने, दाशुषेSग्ने ।
(2) अन्त: पादमकारच्चेत्संहितायां लघोर्लघु ।
यकाराद्यक्षरं परं वकाराद्यपि वा भवेत् ।
पादस्य मध्ये अपि यदि 'अ' अथवा 'व' आगच्छेत् तथापि पूर्वोक्तेव भवति ।
यथा- सोsयमागात्, तं पृच्छन्तोsवरास: मे ।
(3) अन्यद्यापि तथा युक्तमावोsन्तोपहितात्सत: ।
अयेSयोSवेSव इत्यन्तैरकार: सर्वथा भवन् ।
'आयो', 'अये', 'अयो', 'अवे' इति एतेषाम् अनन्तरं यदि अकार: आगच्छेत् तथा च तस्यानन्तरं 'य' अथवा 'व' इत्ययो: अतिरिक्तं कश्चिदपि व्यंजनम् आगच्छेत् तर्हि अकारस्य पररूपं भवति ।
यथा- गावोSभित:, अजीतयेSहतये, सूनवेSग्ने ।
(4) व इत्येतेन चा न प्र का चित्र: सवितैव क: । पदैरुपहितेनैते: ।
यदा 'अ' इत्यस्य पूर्वं 'वो' इति आगच्छेत् तथा 'वोकारस्य' पूर्वं आ, न, प्र, क्व, चित्रं, सविता, एव, क शब्दा: आगच्छेयु: तर्हि पूर्वरूपं भवेत् ।
यथा- आवेSहं, क्व वोSश्वा:, प्रवोSच्छा, चित्रोवोSस्तु ।
टिप्पणियाँ
एक टिप्पणी भेजें