सहवाग: 219धावनांकम् अर्जयित्‍वा नूतनं विश्‍वकीर्तिमानमकरोत् - 4rth Odi: Sahwag achieved new word record of 219 runs in Odi




  08.12.2011, इन्‍दौर : भारतीयविस्‍फोटकक्रीडक: सहवाग: अत्र नूतनं कीर्तिमानं स्‍थापितवान् ।  तस्‍य 219 इति धावनांकं विश्‍वक्रिकेटक्रीडाया: सम्‍प्रति सर्वोत्‍तम: अंक: अस्ति ।  एतत् धावनांकं तेन केवलं 149 कन्‍दुकेषु प्राप्‍तम् । 


तस्‍य सहाय्येन भारतेन 418 धावनांकम् अर्जितम् ।  इत: पूर्वमपि भारतस्‍य द्विवारं अंका: 200 त: अधिकं गत: अस्ति । 
पूर्णं अंकपत्रम् अत्र प्राप्‍नोतु
सहवागस्‍य प्रथमशतांक: 69 कन्‍दुकेषु एव अर्जित: ।  स: 25 चतुरांकक:, 7 षडांकक: च ताडितवान् ।

संस्‍कृतजगत्

टिप्पणियाँ

एक टिप्पणी भेजें