(1) घोषवत्परा प्रथमास्तृतीयान्स्वान् - यदा वर्गस्य पूर्व व्यंजनानाम् अनन्तरं घोषव्यंजनानि (प्रत्येकस्य वर्गस्य तृतीय:, चतुर्थ: पंचम: च वर्ण: तथा च य, व, र, ल) आगच्छेयु: चेत पूर्व व्यंजनस्य तस्य एव वर्गस्य तृतीय: इति आदेश: भवेत् ।
यथा - यद्वाग्वदति, षड्भि: ।
(2) उत्तमा नुत्तमेषूदयेषु - वर्गस्य प्रथमव्यंजनानां (क,च,ट,त,प) तस्य एव वर्गस्य पंचमं व्यंजनं भवेत् यदि तेषाम् अनन्तरं वर्गस्य पंचमव्यंजनानि आगच्छेयु: ।
यथा - अर्वाक् + नरा = अर्वाड्.नरा ।
(3) सर्वै: प्रथमैरुपधीयमान:, शकार शाकल्यपितुश्छकारम् - वर्गस्य प्रथमव्यंजनानाम् अनन्तरं श आगच्छेत् तर्हि तस्य 'छ' कार: भवेत् ।
यथा - विपाट् + शुतुद्री = विपाट् छुतुद्री ।
(4) पदान्तैस्तैरेव तृतीयभूतैस्तेषां चतुर्थानुदयो हकार: - यदि प्रथमव्यंजनानाम् अनन्तरं 'ह'कार: आगच्छेत् तर्हि तस्यैव वर्गस्य चतुर्थ: भवेत् । यद्यपि पूर्ववर्णस्य तृतीय: भवेत् ।
यथा - अवाट् + हव्यानि: = अवाड्ढव्यानि ।
(5) विस्थाने स्पर्श उदये मकार: सर्वेषामेवोदयस्योत्तमं स्वम् - 'म'कारस्य अनन्तरं यदि तद्भिन्न: स्पर्शवर्ण: आगच्छेत् चेत् 'म'कारस्य तस्य एव वर्गस्य पंचम: वर्ण: भवेत् ।
यथा - अरिहम् + त = अरिहन्त ।
(6) अन्तस्थासु रेफवर्जं परासु, तां तां पदादिष्वनुनासिकां तु - यदि 'म'कारस्य अनन्तरम् अन्तस्थ य, व, ल इति आगच्छेत् चेत् 'म'कारस्य तस्य एव अन्तस्थ: अनूनासिकरूपं भवेत् ।
यथा - यम + यम् + युजं कृणुते = यँय्यँय्युजं कृणुते ।
(7) नकार उदये लकारे - 'न'कारस्य अनन्तरं यदि ल आगच्छेत् चेत् 'न'कारस्य 'लँ' इति भवेत् ।
यथा - जिगिवान् + लक्षमादत् = जिगिवाँल्लक्षमादत् ।
(8) यंकारं शकारचकारवर्गयो: - 'न' कारस्य अनन्तरं यदि 'श'कार: अथ च चवर्ग: आगच्छेत् चेत् नकारस्य तवर्गस्य पंचम: वर्ण: भवेत् ।
यथा - आस्मान् + जगभ्यात् = आस्मा(यं)जगभ्यात् ।
(9) तकारो जकारलकारयोस्नौ - 'त'कारस्य अनन्तरं यदा 'ज' अथवा 'ल' आगच्छेत् चेत् 'त'कारस्य 'ज' अथवा 'ल' भवेत् ।
यथा - प्रयत् + जिगासि = प्रयज्जिगासि ।
(10) तालव्येSघोष उदये चकारम् - 'त'कारस्य अनन्तरं यदि अघोष तालव्यव्यंजनम् (च,छ) आगच्छेत् चेत् तकारस्य चकार: भवेत् ।
तत् + चक्षु = तच्चक्षु: ।
(11) छकारं तयोरुदय: शकार: - (यं) तथा 'च'कारस्य अनन्तरं यदि 'श' आगच्छेत् चेत् 'श'कारस्य 'छ'कार: भवेत् ।
यथा - तत् + शंयोरा: = तच्छंयोरा ।
टिप्पणियाँ
एक टिप्पणी भेजें