ऋग्‍वेदस्‍य व्‍यवस्‍था विषयविन्‍यास: च - अष्‍टकक्रम:

rigved

 

      ऋग्‍वेदस्‍य अभिप्राय: - स: वेद: यस्मिन् ऋचानां प्राधान्‍यं भवति ।  ऋचा: इत्‍युक्‍ते पद्यात्‍मकमन्‍त्रा: - 'तेषामृग्‍यत्रार्थवशेन पाद-व्‍यवस्‍था' ।  अनेन प्रकारेण ऋग्‍वेदसंहिता ऋचानां संकलितनिधि: अस्ति ।  अस्‍य विभाजनम् 'अष्‍टक क्रम' अथ च 'मण्‍डल क्रम' इति द्विधा अस्ति ।

अष्‍टकक्रम: - अष्‍टकविभाजनं पाठसौविध्‍याय कृतमासीत् ।  कृत्रिमविभाजनम् अस्ति एतत् ।  अष्‍टकक्रमस्‍य अवान्‍तरविभाजनम् अस्ति - अध्‍याय: वर्ग: च ।  सम्‍पूर्णे ऋग्‍वेदे अष्‍ट अष्‍टकानि सन्ति, सर्वाणि अष्‍टकानि प्राय: सामान्‍यपरिमाणस्‍यैव सन्ति ।  प्रत्‍येकस्मिन् अष्‍टके अष्‍ट-अध्‍याया: सन्ति, प्रत्‍येकस्मिन् अध्‍याये केचन् वर्गा: सन्ति ।  प्रत्‍येकस्मिन् वर्गे पंचानां मन्‍त्राणाम् अनुपात: अस्ति ।  अध्‍यायानां पूर्णसंख्‍या 64 अस्ति, वर्गा: च 2006 सन्ति ।

निम्‍नतालिकायां वर्गाणां ऋचाणां च सम्‍बन्‍ध: द्रष्‍टुं शक्‍यमस्ति ।

ऋचा: वर्गसंख्‍या पूर्णसंख्‍या
1 1 1
2 2 4
3 97 291
4 174 696
5 1207 6035
6 346 2076
7 119 833
8 59 472
9 1 9
     
योग: 2006 10417

इति अष्‍टकक्रम: ।

टिप्पणियाँ