वैदिकवाड्.मये ऋग्वेदस्य पाठ-प्राथम्येन विहितमस्ति, यथा छान्दोग्योपनिषदे उक्तमस्ति - 'ऋग्वेदं भगवोध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थम्' (1.1.5) । तैत्तिरीयसंहितायां तु एवमपि निगदितमस्ति यत् यज्ञे यत् किमपि यजुष्-सामाभ्यां क्रियते तत् शिथिलं किन्तु ऋग्भि: कृतं तु दृढम् - 'यद् वैयज्ञस्य साम्ना यजुषा क्रियते शिथिलं तद् यद् ऋचा तद् दृढम्' (तै.स. 6.5.10.3) ।
ऋग्वेदस्य शाखा: - अध्ययनप्रसारकारणात् कालान्तरे एकस्या: एव मन्त्रसंहिताया: अनेका: शाखा: अभवन् । एकस्य वेदस्य सर्वासु शाखासु वस्तुत: मूलवेद: तु अभिन्न: एवासीत् । एतेषु केषांचन् मन्त्राणां न्यूनाधिक्यं, पौर्वापर्यं, पाठ-व्यतिक्रम:, उच्चारणभेद:, अनुष्ठानविधे: च पार्थक्यम् एव प्राय: भवति, यथा पं. सत्यव्रत सामश्रमीवर्येण निगदितम् 'वेदशाखाभेदो न मन्वाद्यध्यायभेदतुल्य:, प्रत्युत भिन्नकाललिखितानां भिन्नदेशीयानामेकग्रन्थानामपि बहुतरादर्शपुस्तकानां यथाभवत्येव पाठादिभेद: प्रायस्तथैव' (वेदत्रयी परिचय:, पृ.42) ।
पतंजले: व्याकरणमहाभाष्यगत कथनानुसारं ऋग्वेदस्य कदाचित् 21 शाखा: आसन् - 'एकविंशतिधा बाह्वृच्यम्' (पस्पशाह्निकम्) । एतेषु 'चरणव्यूहे' उल्लिखिता: एता: पंचशाखा: प्रमुखा: मन्यन्ते - शाकल, बाष्कल, आश्वलायनी, शांखायनी, मण्डूकायनी च ।
सम्प्रति ऋग्वेदस्य शाकलशाखा एव उपलब्धा अस्ति । एवं मन्यते यत् अन्यासु शाखासु ये मन्त्रा अधिका: आसन् विशेषरूपेण बाष्कलशाखायां , तेपि अस्याम् एव सम्मिलिता: सन्ति । ते मन्त्रा: ये सम्मिलितुम् अशक्ता: आसन् खिलसूत्राणाम् अन्तर्गतम् आगच्छन्ति ।
भागवतानुसारं ऋग्वेदस्य अध्यापनं प्रथमवारं महर्षिवेदव्यास: स्वशिष्यं पैलस्य सम्मुखं कृतवान् - तत्रग्वेदधर: पैल:' ।
इति
टिप्पणियाँ
एक टिप्पणी भेजें