वेदस्य मुख्यत: द्वौ भागौ स्त: - कर्मकाण्डं ज्ञानकाण्डम् च । कर्मकाण्डं वेदस्य अतिविशालभागं वहति । तदपेक्षया ज्ञानकाण्डम् अत्यल्पम् अस्ति किन्तु तद् वेदस्य सिद्धान्तानां अन्तिमपरिणति: अस्ति अत: 'वेदान्त' नामै: अभिहितमस्ति । वेदे निर्दिष्टं कर्मानुष्ठानं 'याग' इति कथ्यते यस्य लक्षणम् अस्ति - 'देवतोद्देशेन द्रव्ययाग: याग:' अर्थात् देवताभ्य: दत्तं द्रव्य-दानम् । देवतानां ज्ञानस्य विशिष्टं कारणमपि अस्ति, यास्केन अस्य प्रसंगस्य कृते कस्यचित् ब्राह्मणस्य वचनम् उद्धृतमस्ति - 'यस्यै देवतायै हविर्गृहीतं स्यात् तां मनसा ध्यायेत् वषट् करिष्यन्' (निरुक्तम् 8.22) । आशय: अस्ति यत् - अनुष्ठानान्ते 'वौषट्' इति उच्चारणस्य पूर्वं होता नामकं ऋत्विजाय यस्या: देवताया: कृते अध्वर्यु: हविषं ग्राहयति तां देवतां मनसि ध्यायेत । अनेन प्रकारेण देवानां प्राधान्यं स्वाभाविकमस्ति ।
देवशब्द: 'दिव' धातुना निष्पन्नो भवति यस्य मुख्यार्थ: भवति प्रकाशनम् । अनेन प्रकाशरूपेअर्थेन परमात्मन: बोध: भवति यतोहि सूर्य:, चन्द्र: आदय: स्वज्योतिना प्रकाशिता: नैव भवन्ति, परमात्मा एव तान् प्रकाशयति इति ।
यास्क: नैरुक्ते मतं निरूपयति यत् देवा: तिस्र: एव भवन्ति । द्युलोके सूर्य:, अन्तरिक्षे वायु: अथवा इन्द्र तथा च पृथिव्याम् अग्नि: । स्थानभेदात् एता: तिस्र: एव देवाता: । एवं विधा देवानां तिस्र: कोटिरस्ति - द्युस्थानीय:, पृथ्वीस्थानीय: अन्तरिक्षस्थानीय: च ।
द्युस्थानीयदेवतासु प्रमुखा: सन्ति - द्यौस्, वरुण:, मित्र:, सूर्य:, सविता, पूषन्, विष्णु:, विवस्वान्, आदित्य:, अश्विनौ, उषा च ।
अन्तरिक्षस्थानीयेषु - इन्द्र:, रुद्र:, मरुत्, पर्जन्य:, अपांनपात्, त्रित आप्त्य, मातरिश्वन्, वायु-वात:, आप: च । पृथ्वीस्थानीयेषु - अग्नि:, बृहस्पति:, सोम: च ।
सम्पूर्णे ऋग्वेदे प्राप्तानां देवानां सम्पूर्णसंख्या 33 अस्ति । अर्थात् देवानां 33 कोटिरस्ति ऋग्वेदे ।
इति
टिप्पणियाँ
एक टिप्पणी भेजें